SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ *++***+******+1084030 Jain Education International निर्वाणपदकाङ्क्षिभिः निर्वान्ति रागद्वेषोपतप्ताः शीतीभवन्त्यस्मिन्निति निर्वाणं तदेव पद्यमानत्वात् पदं तत्काङ्क्षणशीला निर्वाणपदकाङ्क्षिणः, तैर्विधातव्यो विधेयो रागद्वेषावेवोपतापकारित्वाद् द्विषन्तौ तयोर्जयोऽभिभवः, केनोपायेनेत्याह- समत्वेन, रागहेतुषु द्वेषहेतुषु च माध्यस्थ्येनौदासीन्येनेति यावत् ॥ ४६ ॥ यथा साम्यं रागद्वेषजयोपायस्तथाऽऽद अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्वेषमलक्षयः ॥ ५० ॥ साम्यमेवातिशीतीभावजनकत्वाद् वारि तत्र । किंविशिष्टे ? अमन्दस्तीव्रो य आनन्द आह्लादस्तस्य जनने, मञ्जतां तन्मध्यमवगाहमानानां सहसा अकस्मात् । केषां पुंसां । रागद्वेषावेव मलस्तस्य चयः । प्रसिद्धमेतद् यथा वारिणि मज्जतां मलायो भवति, एवं साम्ये निमज्जतां लीयमानानां रागद्वेषतयो भवति ॥ ५० ॥ न परं रागद्वेषयोरेवापनायकं साम्यम्, अपि तु सर्वकर्मणामपीत्याह प्रणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत्। यन्न हन्यान्नरस्तीत्रतपसा जन्मकोटिभिः ॥ ५१ ॥ प्रणिहन्ति निहन्ति चणार्धेनान्तर्मुहूर्तेन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किश्चित् कर्म न हन्याद् नापनयेद् नरः पुमान् तीव्रतपसा तीव्रेण शरीरमनसोः संतापहेतुनाऽनशनादिरूपेणार्थात् साम्यरहितेन जन्मकोटिभिर्बहुभिरपि जन्मभिः ।। ५१ ।। कथमन्तर्मुहूर्त्तमात्रेण साम्यं सर्वकर्मापनायकमित्याह For Personal & Private Use Only 18++++*****084- www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy