________________
१६ । प्रत्यनीकमाहारादिकाले वन्दनम् । १७ । यदाहप्र. वक्खित्तपराहुत्ते पमत्ते मा कयावि वंदिजा ॥ पाहारं च करिते नीहारं वा जइ करेइ ॥१॥
रुष्टं क्रोधाध्मातस्य गुरोर्वन्दनमात्मना वा क्रुद्धेन वन्दनम् । १८ । तर्जितमवन्धमानो न कुप्यसि वन्द्यमानचाविशेषज्ञतया न प्रसीदसि इति निर्भयतो यद्वा बहुजनमध्ये मां वन्दनं दापयस्तिष्ठसि ज्ञास्यते मया तवैकाकिन इति धिया तर्जन्या शिरसा वा तर्जयतो वन्दनम् । १६ । शठं शाठ्येन विश्रम्भार्थ वन्दनं ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दनम् ।२०। हीलितं हे गणिन् वाचक ! किं भवता वन्दितेनेत्यादिना अवजानतो वन्दनम् ।२१। विपरिकुंचितम् अर्धवन्दित एव देशादिकथाकरणम् । २२ । दृष्टादृष्टं तमसि स्थितः केनचिदन्तरित एवमेवास्ते दृष्टस्तु वन्दत इति । २३ । शृङ्गं अहो कायं काय इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनकरणम् । २४ । करः कर इव राजदेयभाग इव अर्हत्प्रणीतो वन्दनककरोऽवश्यदातव्य इति धिया वन्दनम् ।२५ । मोचनं लौकिककराद्वयं मुक्ता न मुच्यामहे वन्दनकरादिति बुद्ध्या वन्दनम् । २६ । आश्लिष्टानाश्लिष्टमत्र चतुर्भङ्गी, सा च अहो काय काय इत्याद्यावर्तकाले भवति रजोहरणस्य शिरसश्च कराभ्यामाश्लेषणं, रजोहरणस्य न शिरसः, शिरसो न रजोहरणस्य, न रजोहरणस्य नाऽपि शिरसः। अत्र प्रथमः शुद्धः शेषास्तु दुष्टाः । २७ । न्यूनं व्यञ्जनाभिलापावश्यकैरसम्पूर्णम् । २८ । उत्तरचूलं वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानम् । २९ । मृकं आलापाननुच्चारयतो वन्दनम् । ३० । ढड्ढरं महता
(१) व्याक्षिप्तपराभूतान् प्रमत्तान् मा कदापि वन्दिष्ठाः । आहारं च कुर्वतो नीहारं वा यदि करोति ॥ १॥
in Education Inter
For Personal & Private Use Only
www.jainelibrary.org