SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ योगशाखम् तृतीयः प्रकाशः। ॥२३६॥ रजोहरणमक्शवत्करद्वयेन गृहीत्वा वन्दनम् , यदि वाशाक्रान्तस्य हस्तिन इव शिरोनमनोत्रमने कुर्वाणस्य वन्दनम् । ६ । कच्छपरिङ्गितमूर्ध्वस्थितस्य तित्तिसणयरा इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा अहो कायं काय इत्यादिसूत्रमुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतश्चलतो वन्दनम् । ७। मत्स्योवृत्तमुत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्तते उद्वेलते यत्र तत् । यद्वा एक वन्दित्वा द्वितीयस्य साधोद्रुतं द्वितीयपान रेचकावर्तेन मत्स्यवत् परावृत्य वन्दनम् । ८ । मनसा प्रदुष्टं शिष्यस्तत्सम्बन्धी वा गुरुणा किश्चित्परुषमभिहितो यदा भवति तदा मनसो दक्षितत्वाद् मनसा प्रदुष्टं, यद्वा वन्दयो हीनः केनचिद्गुणेन ततोऽहमेवंविधेनापि वन्दनं दापयितुमारग्ध इति चिन्तयतो वन्दनम् । ९ । वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा जानु करद्वयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बड युक्तं वन्दनम् । १० । बिभ्यत् सङ्घात् कुलात् गच्छाद क्षेत्राद्वा निष्कासयिष्येऽहमिति भयाद् वन्दनम् । ११ । भजमानं भजते मां सेवायां पतितो मम अग्रे वा मम भजनं करिष्यति ततोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीति बुद्ध्या वन्दनम् । १२ । मैत्रीतो मम मित्रमाचार्य | इति, आचार्येणेदानी मैत्री भवत्विति वा वन्दनम् । १३ । गौरवाद्वन्दनकसामाचारीकुशलोऽहमिति गर्वादन्येऽ प्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् । १४ । कारणाद् ज्ञानादिव्यतिरिक्ताद्वस्वादिलाभहेतो| वन्दनम् , यद्वा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीत्यभिप्रायतो वन्दनम् , यद्वा वन्दनकमृन्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुद्ध्या वन्दनम् । १५ । स्तैनिकं मम लाघवं भविष्यतीति परेभ्य आत्मानं निगृहयतो वन्दनम् , अयमर्थः-एवं नाम शीघ्रं वन्दते यथा स्तेनवत् केनचिद् दृष्टः केनचिन्नेति । ॥२३६॥ in Education Inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy