SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ पत्रकाले नवकार पोरिसीए पुरिमड्ढेक्कासवंगठाणे य । आयंबिल भत्तढे चरमे अ अभिग्गहे विगई ॥१॥ नन्वकाशनादिप्रत्याख्यानंः कथमद्धाप्रत्याख्यानम् । न हि तत्र कालनियमोऽस्ति ? सत्यम् , अद्धाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते । प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यम् , अन्यथा तु भङ्गः स्यात् , स च दोषाय; यदाहुः वेयभंगे गुरुदोसो थेवस्स वि पालणा गुणकरी ओ। गुरु लाघवं च णेयं धम्मम्मि अओ अ आगारा ॥१॥ ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदयन्ते । तत्र नमस्कारसहिते मुहूर्त नमस्कारोचारणावसाने प्रत्याख्याने द्वावाकारौ भवतः । आक्रियते विधीयते प्रत्याख्यानभङ्गपरिहारार्थमित्याकारः प्रत्याख्यानापवादः । ननु कालस्यानुक्तत्वात् संकेतप्रत्याख्यानमेवेदम् । नैवम् , सहितशब्देन मुहूर्तस्य विशेषणात् । अथ मुहूर्तशब्दो न श्रूयते, तत् कथं तस्य विशेष्यत्वम् ? । उच्यते-अद्धाप्रत्याख्यानमध्येऽस्य पाठात् , पौरुषीप्रत्याख्यानस्य वक्ष्यमाणत्वादवश्यं तदर्वाग् मुहूर्त एवावशिष्यते । अथ मुहूर्त्तद्वयादिकमपि कुतो न लभ्यते । उच्यते-अल्पाकारत्वादस्य । पौरुष्यां हि षडाकाराः, तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात : सत्यपि नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतत्-मुहूर्त्तमानकालं नमस्कारसहितं प्रत्याख्यानमिति। (१) नमस्कारः पौरुषी पूर्वार्ध एकाशनमकस्थानं च । आचामाम्लमभक्तार्थश्चरमोऽभिग्रहो विकृतिः ॥१॥ (२) व्रतभङ्गे गुरुदोषः स्तोकस्यापि पालना गुणकरी तु । गुरु लाघवं च ज्ञेयं धर्मेऽतश्चाकाराः ॥१॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy