SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ नाभिपद्मे स्थितं ध्यायेदकारं विश्वतोमुखम् । सिवर्ण मस्तकाम्भोजे श्राकारं वदनाम्बुजे ॥७॥ उकारं हृदयाम्भोजे साकारं कण्ठपङ्कजे।सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत्॥७॥ असिआउसा | बीजान्यन्यान्यपि नमः सर्वसिद्धेभ्यः इति ॥ ७६-७७ ॥ उपसंहरति| श्रुतसिन्धुसमुद्भतमन्यदप्यक्षर पदम् । अशेष ध्यायमानं स्यान्निर्वाणपदसिद्धये ॥ ७८ ॥ स्पष्टः ॥ ७८॥ उक्तं चवीतरागो भवेद्योगी यत्किञ्चिदपि चिन्तयेत्। तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः॥७९॥ एवं च मन्त्रविद्यानां वर्णेषु च पदेषु च । विश्लेषः क्रमशः कुर्याल्लक्ष्मीभावोपपत्तये ॥८॥ ___ स्पष्टौ ।। ७९-८० ॥ आशिषमाहइति गणधरधुर्याविष्कृतादुध्धृतानि, प्रवचनजलराशेस्तत्त्वरत्नान्यमूनि। हृदयमुकुरमध्ये धीमतामुल्लसन्तु, प्रचितभवशतोत्थक्लेशनि शहेतोः ॥ ८१॥ इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञमष्टमप्रकाशविवरणम् ॥८॥ x “ लक्षा (क्ष्य)" इति प्रत्यन्तरम् ।। For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy