________________
योगशास्त्रम्
द्वितीयः प्रकाश।
॥११२॥
प्रियसखीमिव प्राप महाटवीम् ॥४५॥ पारावारमिवापारां तितीर्घस्तां महाटवीम् । सहायं चिन्तयामास तरण्डमिव धृत्तेराद् ॥ ४६ ।। कस्मादप्यागतोऽकस्मादभ्रादिव परिच्युतः । शम्बलस्थगिका बिभ्रत्कोऽपि टक्को द्विजस्तदा ॥ ४७ ॥ असहायः सहायीयं तं विप्रं क्षिप्रमागतम् । वृद्धो यष्टिमिव प्राप्य मूलदेवो मुदं ययौ ॥ ४८ ॥ जगाद मूलदेवस्तं ममारण्ये प्रपेतुषः । आत्मच्छायाद्वितीयस्य दिष्ट्या मिलितवानसि ॥४६॥ स्वच्छन्दं वार्तयिष्यावस्तदावा द्विजसत्तम । मार्गखेदापहरणी विद्या वार्ता हि या पथि ॥ ५० ॥ दूरे कियति गन्तव्यं स्थाने जिगमिषा क ते । कथ्यतां भो महाभाग मार्गमैत्री वशीकुरु ॥ ५१ ॥ विनोऽप्याख्यद्गमिष्यामि पारेऽरण्यमिव स्थितम् । स्थानं वीरनिधानाख्यं ब्रूहि त्वं कुत्र यास्यसि ।। ५२ ॥ मृलदेवोऽब्रवीद्यास्याम्यहं वेणातटे पुरे । विप्रोऽप्यूचे तदेहि त्वमेकोऽध्वा दूरमावयोः ॥५३।। ललाटन्तपतपने मध्याह्नेऽथ समागते । मिलिताभ्यां च गच्छद्भयां ताभ्यां प्रापि महासरः ॥५४॥पाणिपादमुखं मूलदेवः प्रक्षाल्य वारिणा । निरन्तरतरुच्छाये भूतले समुपाविशत् ।।५५॥ स्थगिकायाः समाकृष्य सक्तूनालोड्य वारिणा । एकोऽपि भोक्तुमारेभे टक्को रक इव द्रुतम् ॥ ५६॥धूर्तोऽप्यचिन्तयदसौ नाऽऽदौ मे भोजनं ददौ । अतिक्षुधाऽऽतुरो भुङ्क्ते भुक्तः सन् खलु दास्यति ॥५७॥ भुक्त्वा तत्रोत्थिते विप्रे बना(न)ति स्थगिकामुखम् । दध्यौ धूर्तोऽपि यद्यद्य नादात्तच्चः प्रदास्यति ॥५८॥ तस्मिन्नदत्त्वा भुञ्जाने मूलदेवस्तदाशया । त्रीवासरानगमयन्नृणामाशा हि जीवितम् ।।५९॥ अटवीं तां परित्यज्य धूर्तराज द्विजोऽवदत् । स्वस्ति तुभ्यं महाभाग यास्याम्यहमितोऽधुना ॥६०॥ तमूचे मूलदेवोऽपि त्वत्साहाय्यादियं मया । द्वादशयोजनायामा कोशवल्लविताऽटवी ॥६१॥ वेणातटे गमिष्यामि मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथयेः कार्य कथ्यतां किं च नाम ते ॥२॥ लोकैनिघणशर्मेति
॥११२॥
Lain Education internal
For Personal & Private Use Only
www.jainelibrary.org