SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अपकृष्टं ध्यानमपध्यानं, तदनर्थदण्डस्य प्रथमो भेदः । तच्च द्वेधा----आर्त रौद्र च; तत्र तं दुःखं तत्र भवमात; यदि वा अतिः पीडा यातनं च, तत्र भवमार्चम् । तच्चतुर्दा--मनोज्ञाना शब्दादीनां संप्रयोगे तद्विप्र. योगचिन्तनमसंप्रयोगप्रार्थना च प्रथमम् । शूलादिरोगसम्भवे च तद्वियोगप्रणिधानं तदसंप्रयोगचिन्ता च द्विती यम् । इष्टानां च शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संप्रयोगामिलापश्च तृतीयम् । देवेन्द्र चक्रवादिविभवप्रार्थनारूपं निदानं चतुर्थम् । यदाहुः अमणुप्माणं सद्दाइविसयवत्धुण दोसमइलस्स । धणिअं विमोअचिंतणमसंपयोगाणुसरणं च ॥१॥ तह सूलसीसरोगाइवेयणाए विरोअपणिहाणं । तदसंपोगचिंता तप्पडियाराउलमणस्स ॥ २ ॥ ईट्ठाणं विसयाईण वेयणाए अरागरत्तस्स । अविओगज्झवसाणं तह संजोगाभिलासो अ॥३॥ 'देविंदचक्कवाट्टित्तणाइगुणरिद्धिपत्थणामइयं । अहम नियाणचिंतणममाणाणुगयमचंतं ॥४॥ ऐयं चउब्बिहं रागदोसमोहंकियस्स जीवस्स | अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ॥ ५ ॥ (१) अमनोज्ञानां शब्दादिविषयवस्तूनां द्वेषमलिनस्य । अत्यर्थ वियोगचिन्तनमसंप्रयोगानुसरणं च ॥ १ ॥ (२) तथा शूलशिरोरोगादिवेदनायाः वियोगप्रणिधानम् । तदसंप्रयोगचिन्ता तत्प्रतीकाराकुलमनसः ॥२॥ (३) इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य । अवियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥ ३ ॥ (४) देवेन्द्रचक्रवर्तित्वादिगुणद्धिप्रार्थनामयम् । अधर्म निदानचिन्तनमज्ञानानुगतमत्यन्तम् ॥ ४ ॥ (५) एतत् चतुर्विधं रागद्वेषमोहाङ्कितस्य नीवस्य । आर्तध्यानं संसारवर्द्धनं तिर्यग्गतिमूलम् ॥ ५ ॥ For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy