SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् एकादशः प्रकाशः। ॥३८२॥ वीर्यपरिणतिविशेषः काययोगः। औदारिकवक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः । औदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याजविव्यापारो मनोयोगः॥१०॥ ननु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात्केवलिनः, ध्यानं च मन:स्थैर्य, तदेतत्कथं ? इत्याह छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्झैः ।। निश्चलमङ्गं तद्वत्केवलिनां कीर्तितं ध्यानम् ॥ ११ ॥ यथा छद्मस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्वाव्याभिचाराद्ध्यानशन्दाभिधेयो भवति ॥ ११ ॥ ____ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वात् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः, तत्र कथं ध्यानशब्दवाच्यता ? इत्याह पूर्वाभ्यासाजीवोपयोगतः कर्मजरणहेतोर्वा । शब्दार्थबहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् ॥ १२ ॥ यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाद्धमति, तथा मनःप्रभतिसर्वयोगोपरमेऽप्ययोगिनो ध्यानं भवति । तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनःसद्भावादयोगिनो भ्यानम् । यद्वा ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वात् ध्यान, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते । ॥३८२॥ www.jainelibrary.org Jain Educationin For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy