SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ शालिभद्रं ततोऽवदत् । इहायातः श्रेणिकाऽस्ति तद्रष्टुं क्षणमंहि तत् ।। ६ । अम्ब : समय यद्वेरिख नमर्य कारय स्वयम् । किं मया तत्र कत्तव्यं स भद्राभित्यभापत ५०॥ ततो नद्राऽप्युवाचेनं क्रेतव्यं वस्तुन ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि व प्रभुः ।। ५२ ॥ तच्छ्रुत्वा शालिभद्रो पि सविपादमचिन् यत् । धिक् सांसारिकमैश्वयं यन्ममाप्यपरः प्रभुः ॥ ५२ । भोगिभांगेरिवेभिर्मे भोगैरलमतः परम् । दीक्षां मक्षु ग्रहीष्यामि श्रीवीरचरणान्तिके ।। ५३ ॥ एवं संवेगयुक्तोऽपि स मातुरूपरोधतः । सभार्याऽभ्येत्य राजानमनमहिनयान्वितः ॥ ५४॥ सस्वजे श्रेणिकेनाथ स्वाङ्के सुत इवासितः । स्नेहाच्छिरसि चाघ्रातः क्षणाचाOणि सोऽमुचत् ।। ५५ ।। ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मानुष्यमाल्यगन्धेन मनुष्योऽप्येप बाध्यते ।। ५६ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्त्रागरागादीन् प्रतिवामरम् ।। ५७ ॥ ततो राजा विसृष्टोऽसौ ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ।। ५८ ॥ भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्व श्रीमतां किं न सिध्यति ? ॥ ५६ ॥ सस्नौ स्नानीयतैलाम्बुचूर्णैस्तूर्ण ततो नृपः । अङ्गुलीयं तदङ्गुल्याः क्रीडावाप्यां पपात च ।। ६० ॥ यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशदासीं वाप्य| म्भोऽन्यत्र नाय्यताम् ।। ६१ ॥ तथा कृते तया चित्रदिव्याभरण मध्यगम् । अङ्गारामं स्वाङ्गुलीयं दृष्ट्वा राजा * विसिमिये ॥ ६२ ॥ किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् ! । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ ६३ ॥ सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शेति भूपतिः ।। ६४ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालङ्कारवस्त्रायैरर्चितश्च गृहं ययौ ॥६५॥ शालिभद्रोऽपि संसारविमोक्षं in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy