________________
योग
शास्त्रम १८७॥
*-*-*-*
Jain Education International
यावदिच्छति । अभ्येत्य धर्मसुहृदा विज्ञस्तावदीदशम् ॥ ३६ ॥ श्रगाधतुनिवरः सुरासुरनमस्कृतः मूर्ती धर्म इवोद्याने धर्मघोषामित्रो मुनिः ॥ ६७ ॥ शालिभद्रस्ततो हर्षादधिरुत्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्रोपाविशत्पुरः || ६८ ॥ सरिर्देशनां कुर्वन्नत्वा तेनेत्यपृच्छत । भगवन् ! कर्मणा केन प्रभुरन्यों न जायते ? ||३६|| भगवानभ्युवाचेदं दीचां गृह्णन्ति ये जनाः । श्रशेपस्यापि जनतः स्वामिभावं भजन्ति ते ॥ ७० ॥ यद्येवं नाथ ! तत्वा निजामापृच्छ्य मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥ ७१ ॥ न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रों गृहं गत्वा भद्रां नत्वेत्यभाषत ॥ ७२ ॥ धर्मः श्रीमंवीपस्य सूरेरय मुखाम्बुजात् । विवदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥ ७३॥ अकाः साध्विदं वत्स ! पितुस्तस्यासि नन्दनः । प्रशशंसति भद्राऽपि शालिभद्रं प्रमोदतः ।। ७४ ।। सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥ ७५ ॥ साऽप्यवादीदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किन्त्वत्र लोहचणकावणीया निरन्तरम् ।। ७६ ।। सुकुमारः प्रकृत्याऽपि दिव्यभोगैश्व लालितः । स्यन्दनं वर्णक इव कथं त्वं वच्यसि व्रतम् ? ||७७|| शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एवं नेतरे ||७८|| त्यज भोगान् कमान्मर्त्यमाल्यगन्धान् सहस्व च । इत्यभ्यासाद्वृतं वत्स ! गृह्णीया इत्युवाच सा ॥ ७६ ॥ शालिभद्रस्वतो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ॥८०॥ इतश्च तस्मिन् नगरे धन्यो नाम महाधनः । बभूव शालिभद्रस्य कनिष्ठभगिनीपतिः ||१|| शालिभद्रस्वसा साश्रु स्वपयन्ती तु तं तदा । किं रोदिपीति तेनोक्ता जगादेति सगद्गदम् ||८२॥ व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भायां च तूलिकां चाहं हेतुना तेन रोदिमि
For Personal & Private Use Only
*****
वृतीय: प्रकाश
1165811
www.jainelibrary.org