________________
अत एव कायप्रमाणमात्मेति सुस्थितं वचनं, तेम्यो नम इति क्रियायोगः, एवंभूता एव प्रेक्षावतां नमस्काराहा, आद्यन्त| सङ्गतश्च नमस्कारो मध्यव्यापीति । जितभया अप्येते एव नान्ये इति प्रतिपादयितुमुपसंहरनाह-नमो जिणाणं जिअभयाणं-नमो जिनेभ्यो जितभयेभ्य इति । तदेवं सब्वन्नूणं सव्वदरिसीणमित्यत आरभ्य नमो जिणाणं जिअभयाणमित्येवमन्तैत्रिभिरालापकैः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी ।।। अत्र स्तुतिप्रस्तावान्न पौनरुक्त्यशङ्का करणीया । यहाह--
सज्झाय-ज्झाण-तव-ओसहेसु उवएस-थुइ-पयाणेसु। सन्तगुणकित्तणेसु य न होन्ति पुणरुत्तदोसाओ (उ) ॥१॥ __एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणाजिनजन्मादिषु स्वर्विमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते, अयश्च प्रायेण भावार्हद्विषयो भावार्हदध्यारोपाच्च स्थापनार्हतामपि पुरः पठ्यमानो न दोपाय, प्रणिपातदण्डकानन्तरं चाऽतीतानागतवर्तमानजिनवन्दनार्थ केचिदेतां गाथां पठन्ति
जे अ अईया सिद्धा जे अ भविस्संति णागए काले । संपइ अ वट्टमाणा सव्वे तिविहेण वंदामि ॥१॥
सुगमा चेयम् । ततश्चोत्थाय स्थापनार्हद्वन्दनार्थ जिनमुद्रया अरिहंतचेइयाणमित्यादिसूत्रं पठति । अर्हता पूर्वोक्तस्वरूपाणां चैत्यानि प्रतिमालक्षणानि अर्हचैत्यानि-चित्तमन्तःकरणं तस्य भावः कर्म वा वर्णदृढादित्वात्
(१) स्वाध्याय-ध्यान-तप-औषधेषूपदेश-स्तुति-प्रदानेषु । सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥ १॥ (२) ये चातीताः सिद्धा ये च भविष्यन्त्यनागते काले । सम्प्रति च वर्तमानाः सर्वान् त्रिविधेन बन्दे ॥२॥
For Personal & Private Use Only