SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ तृतीया प्रकाशः। योग शास्त्रम् ॥ २२२ ॥ मिति, न धर्मधर्मिणोः सर्वथामेदानम्युपगमात् । ततश्चाम्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मावशिष्टा ज्ञानेन गम्यन्ते अभ्यन्तरीकृतविषमताख्यधर्माण एव समताधर्मविशिष्टा दर्शनेन गम्यन्ते इति ज्ञानदर्शनयोर्नाडसर्वार्थविषयत्वमिति सर्वज्ञाः सर्वदर्शिनश्च तेभ्यः । एते च सर्वगतात्मवादिभिर्मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते-" मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः" इति । तन्निराकरणार्थमाह-सिवमयलमरुअमणंतमक्खयमव्याबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं-शिवं सर्वोपद्रवरहितत्वात् , अचलं स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात् , अरुजं व्याधिवेदनारहितं तन्निबन्धनयोः शरीरमनसोरभावात् , अनन्तमनन्तज्ञानविषयत्वयुक्तत्वात् , अक्षयं विनाशकारणाभावात् , अव्याबाधमकर्मत्वात् , अपुनरावृत्ति न पुनरावृत्तिः संसारेऽवतारो यस्मात् , सिद्धिगतिनामधेयं सिद्धयन्ति निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धिर्लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद्गतिः, सिद्धिगतिरेव नामधेयं यस्य तत्तथा, स्थानं तिष्ठिन्त्यस्मिन्निति स्थानं व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः-" इह बुन्दि चइत्ता णं तत्थ गंतुण सिज्झइ" इति । निश्चयतस्तु स्वस्वरूपमेव सर्वे भावा आत्मभावे तिष्ठन्तीति वचनाव , विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं स्थानं सम्प्राप्ताः सम्यगशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापच्या प्राप्तास्तेभ्यः, न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात् , नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् । अतःक्षेत्रतोऽसर्वगतपरिणामिनामेवैवं प्राप्तिः सम्भवति, (१) इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति। म॥२२२॥ Latin Education internations For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy