SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ भवति । अष्टाहवाहिनि तु वायौ षट्त्रिंशदधिको दिननवशती जीवेत् , अष्टोत्तरसहस्रात्तिमृणां चतुर्विशतीनामपनयने एतदेव भवति ॥ ३ ॥ तथा-- एकत्रैव नवाहानि तथा वहति मारुते । प्रहामष्टशतीं जीवेच्चत्वारिंशदिनाधिकाम् ॥ ९४॥ ____नव दिनानि वहति वायौ चत्वारिंशदधिको दिनानामष्टशती जीवेत् पत्रिंशदधिकनवशतीमध्याच्चतसृणां चतुर्विशतीनामपनयने एतदेव भवति ॥ १४॥ तथाहैं तथैव वायौ प्रवहत्येकत्र दश वासरान् । विंशत्यभ्यधिकामह्नां जीवेत्सप्तशतीं ध्रुवम् ॥ ९५॥ ___ दश वासरान् वायौ वहति विंशत्यधिको दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्वि| शतीनामपनयने एतदेव स्यात् ॥६५॥ तथा एकद्वित्रिचतुःपञ्चचतुर्विशत्यहाक्षयात् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥ ९६ ॥ ___स्पष्टः ॥ ६६ ।। तद्यथेति एनमेव श्लोकं विवृणोति| एकादश दिनान्यर्कनाड्यां वहति मारुते । षणवत्यधिकान्यह्नां षट् शतान्येव जीवति॥९७॥ एकादश दिनानि वहति वायौ परमवत्यधिकानि दिनानां पद शतानि जीवति, विंशत्यधिकसप्तशतीमध्यादेकस्याश्चतुर्विशतरपनयने एतदेव भवति ।। १७॥ तथा Jan Education EST For Personel Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy