________________
योग
पश्चमः प्रकाशन
शास्त्रम्
१॥३५०॥
तथैव सूर्यनाड्यामहोरात्रं वहन वायुर्दशमे वर्षे, व्यहं वहनष्टमे वर्षे, व्यहं वहन् षष्ठे वर्षे मृत्यवे भवति ॥८६॥
तथावहन् दिनानि चत्वारि तुर्येऽब्दे मृत्यवे मरुत् । साशीत्यहःसहस्रं तु पञ्चाहानि वहन् पुनः॥१०॥ ___तथैव सूर्यनाड्यां चत्वारि दिनानि वहन् वायुश्चतुर्थे वर्षे मृत्यवे । पञ्च दिनानि तथा वहन् वायुरशीत्यधिके दिनसहस्रे वर्षत्रये इत्यर्थः ॥ १०॥
तथाएकद्वित्रिचतुःपञ्चचतुर्विशत्यहःक्षयात् । षडादीन् दिवसान् पञ्च शोधयेदिह तद्यथा ॥९१॥
साशीत्यहःसहस्रमध्यादेकस्या द्वयोस्तिमृणां चतसृणां पश्चानां चतुर्विंशतीनां यथाक्रमं पातनेन षद् सप्ताष्टौ दश च दिनानि शोधयेत् , तद्गतं च कालं जानीयात् । तद्यथेति विवरणोपन्यासश्चतुर्भिः श्लोकैः ॥ ११ ॥ षटुं दिनानामध्यर्क वहमाने समीरणे । जीवत्यहां सहस्रं षट्पञ्चाशदिवसाधिकम् ॥ ९२ ॥ __षद् दिनान्यर्कनाड्यां वहमाने वायौ षट्पञ्चाशदधिकं दिनसहस्रं जीवति अशीत्यधिकसहस्रादेकचतुर्विशत्यपनयने एतदेव भवति ॥ ९२ ।।
तथा| सहस्रं साष्टकं जीवेद्वायौ सप्ताहवाहिनि । सषट्त्रिंशन्नवशती जीवेदष्टाहवाहिनि ॥ ९३ ॥
सप्ताहवाहिनि वायावष्टोत्तरं दिनसहस्रं जीवेत् , पद्पश्चाशदधिकसहस्रात् द्वयोश्चतुर्विशत्योरपनयने एतदेव
॥३५०।।
in Education
For Personal & Private Use Only
www.jainelibrary.org