SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Jain Education Inters ←+x-(---> Hole <--) येषु पञ्चाहगमनं वायोर्निर्दिष्टं तेषु द्वित्रिचतुर्दिवसवाहिनि मारुते पञ्चाहफलानुसारेण मरणवर्षमूह्यं । श्रब्दभागैस्तु ते शोध्या इति पञ्चाहवाहिनि वायौ किलाष्टादशाब्दानि ततो दिनचतुष्टय वाहिनि एकदिवस भागे वर्ष - त्रयं मासाः सप्त दिनानि षट् अस्मिन् शोधिते लब्धं चतुर्दश वर्षाणि चत्वारो मासाः चतुर्विंशतिर्दिनानि । एवं द्व्यहत्र्यहवाहिन्यपि वाच्यं । शरदादिष्वप्येवमेव भागशुद्धिः कार्या ॥ ८५ ॥ अथ प्रकारान्तरेण वायुनिमित्तं कालज्ञानोपदेशं प्रतिजानीते अथेदानीं प्रवक्ष्यामि कञ्चित् कालस्य निर्णयम् । सूर्यमार्गं समाश्रित्य स च पौष्णेऽवगम्यते ॥ ८६ ॥ स्यष्टः || ८६ | पौष्ण इत्युक्तं तस्य स्वरूपमाह – जन्मऋक्षगते चन्द्रे समसप्तगते रवौ । पौष्णनामा भवेत्कालो मृत्युनिर्णयकारणम् ॥८७॥ यदा जन्मनक्षत्रे चन्द्रः समसप्तगतश्च सूर्यो भवति तदा पौष्णः कालः ॥ ८७ ॥ तस्मिन् सूर्यनाडीप्रवाहेण कालज्ञानमाह दिनार्थं दिनमेकं च यदा सूर्ये मरुद्वहन् । चतुर्दशे द्वादशेऽब्दे मृत्युवे भवति क्रमात् ॥ ८८॥ दिनार्थं सूर्यनाड्यां वहन् वायुश्चतुर्दशे वर्षे दिनं तु वहन् द्वादशेऽब्दे मृत्यवे स्यात् ॥ ८८ ॥ तथातथैव च वहन् वायुरहोरात्रं द्वयहं त्र्यहम् । दशमाष्टमषष्ठाब्देष्वन्ताय भवति क्रमात् ॥ ८९ ॥ For Personal & Private Use Only 130-7.03++**-+ www.jainvelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy