SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ___ अहम् द्वितीयः प्रकाशः। गृहिधर्माय कल्पत इत्युक्तं गृहिधर्मश्च श्रावकधर्मः स च सम्यक्त्वमूलानि द्वादश व्रतानि तान्येवाहसम्यक्त्वमूलानि पञ्चाणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम्॥१॥[1] सम्यक्त्वं मूलं कारणं येषां तानि सम्यक्त्वमूलानि । अणूनि महाव्रतापेक्षया लघूनि व्रतानि अहिंसादीनि पञ्च एतानि मूलगुणाः । गुणास्त्रय उत्तरगुणरूपाः ते च गुणव्रतानि दिखतादीनि त्रीणि । शिक्षणं शिक्षा अभ्यासः शिक्षायै पदानि स्थानानि चत्वारि सामायिकादीनि प्रतिदिवसाभ्यसनीयानि तत एव गुणव्रतेभ्यो भेदः । गुणव्रतानि हि प्रायो यावजीविकानि गृहमोधिनां श्रावकाणाम् ॥१॥ सम्यक्त्वमूलानीत्युक्तं तत्र सम्यक्त्वं विभजतिया देवे देवताबुद्धिमुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२॥ ___ या देवे गुरौ धौ च वक्ष्यमाणलक्षणे देवत्वगुरुत्वधर्मत्वबुद्धिरयमेव देवो गुरुधर्म इति निश्चयपूर्वा रुचिः श्रद्धानमिति यावत्, शुद्धा अज्ञानसंशयविपर्यासनिराकरणेन निर्मला सा सम्यक्त्वम् । यद्यपि रुचिर्जिनोक्ततत्त्वेAI विति यतिश्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम् । तथापि गृहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्व in Education Internati For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy