SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ अणथोवं वणथोवं अग्गिथोवं कसायथोवं च । न हु मे वीससियव्वं थोवं पि हुतं बहुं होई॥१॥ श्रयणीया आश्रयितव्या एकैव क्षमा । न हि क्षमामन्तरेण क्रोधोपशमोपायो जगत्यस्ति, क्रोधफलसंप्रदानं तु वैरहेतुत्वेन प्रत्युत क्रोधवृद्धिहेतुः, न तु तत्पशमाय इत्येकग्रहणम् । क्षमा विशिनष्टि-संयमारामसारणिः संयम एव नवनवानां संयमस्थानानां तरूणामारोपहेतुत्वेन तद्वृद्धिहेतुत्वेन चारामो विचित्रतरुसमूहात्मकस्तस्य सारणिः कुल्या संयमारामवृद्धिहेतुतया पुष्पफलप्राप्तिहेतुतया च । क्षमा हि प्रशान्तवाहितारूपा चित्तपरिणतिः सा सारणित्वेन रूपिता नवनवप्रशमपरम्पराप्रवाहरूपत्वात् । अत्रान्तरश्लोकाः___अपकारिजने कोपो निरोधुं शक्यते कथम् । शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया ॥१॥ अङ्गीकत्यात्मनः पापं यो मां बाधितुमिच्छति । स्वकर्मनिहि (ह) तायास्मै का कुप्येद् बालिशोऽपि सन् ॥२॥ प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥३॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमप्रेक्ष्य शरक्षेप्तारमृच्छति ॥४॥ यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भषणश्रियम् । श्रूयते श्रीमहावीरः शान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां क्षान्ति वोढुं किमिव नेच्छसि ॥ ६॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किंक्षमा १॥ ७॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते ?। स्वप्रमादमिदानीं तु शोचनङ्गीकुरु क्षमाम् ॥ ॥क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् । (१) ऋणस्तोकं वनस्तोकमग्निस्तोकं कषायस्तोकं च । न खलु भवता विश्वसितव्यं स्तोकमपि तद् बहु भवति ॥१॥ in Education Interna For Personal & Private use only Ediww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy