SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रकाश योग- 1॥६॥ महर्षिः क्रोधसंयुक्तो निष्क्रोधः कूरगड्डकः । ऋषि मुक्त्वा देवताभिर्ववन्दे कूरगड्डुकः ॥ १०॥ अरुन्तुशाखम् दैवचःशस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ ११॥ वधायोपस्थितेऽ न्यस्मिन् हसेद् विस्मितमानसः । वधे मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः ॥ १२ ॥ निहन्तुमुद्यते ध्यायेदायुषः ॥२५२॥ क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ १३ ।। सर्वपुरुषार्थचौरे कोपे कोपो न चेत् तव । धिक् त्वां स्वन्पापराधेऽपि परे कोपपरायणम् ॥ १४॥ सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङलिकीमिवान-वद्यां क्षमा संततमाद्रियेत ॥ १५ ॥ ११ ॥ A मानकषायस्य स्वरूपमाह| विनयश्रुतशीलानां त्रिवर्गस्य च घातकः। विवेकलोचनं लुम्पन् मानोऽन्धङ्करणो नृणाम् ॥१२|| ___विनयश्च गुर्वादिषूपचारलक्षणः, श्रुतं च विद्या, शीलं च सुस्वभावता, तेषां घातकः । जात्यादिमदाध्मातो | हि पिशाचकिप्रायो न गुर्वादीनां विनीतो भवति । अविनीतश्च गुरूनशुश्रूषमाणो न विद्या प्रतिलभते । अत एव सर्वजनावज्ञाकारी स्वस्य दुःस्वभावतां प्रकटयति । न केवलं विनयादीनामेव घातको मानो यावत् त्रिवर्गस्य धर्मार्थकामलक्षणस्य । मदावलिप्तस्य हि नेन्द्रियजयः, तदधीनश्च धर्मः कथं स्यात् । अर्थोऽपि राजादिसेवापरायत्तवृत्तिानस्तब्धस्य कथं स्यात् ? । कामस्तु मार्दवमूल एव, तत् कथं मानस्तब्धे स्थाणाविव भवेत् । किश्च | अनन्धोऽन्धः क्रियतेऽनेनेत्यन्धङ्करणो मानः । केषां ? नृणाम् । किं कुर्वन् ? लुम्पन् । किं तत् ? विवेकलोचनं विवेकः कृत्याकृत्यविचारणं स एव लोचनम्, "एक हि चक्षुरमलं सहजो विवेकः" इति वचनात् । मानवतो हि ॥ २८ ॥ JanEducation For Personal & Private Use Only PC www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy