SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ वृद्धसेवामकुर्वाणस्य विवेकलोचनलोपनमवश्यंभावि, तसिंश्च सत्यन्धकरणत्वं मानस्य सुवचमेव ॥ १२॥ ___ इदानीं मानस्य भेदानुपदर्शयस्तत्फलमाहजातिलाभकुलै श्वर्यदलरुपतपःश्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥ १३ ॥ ___ जातिश्च लाभश्चेत्यादिद्वन्द्वः, तैर्मदं मदलिप्तचित्ततां कुर्वन् , तान्येव जात्यादीनि जन्मान्तरे हीनानि लभते । अनान्तर श्लोकाः जातिभेदान् नैकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत जातु जातिमदं सुधीः ॥१॥ उत्तमां जातिमाप्नोति हीनामामोति कर्मतः । तत्राशाश्वतिकी जाति को नामासाद्य माद्यतु ॥२॥ अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्वज्ञो न लाभमदमुद्हेत् ॥ ३॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥४॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥५॥ किं कुलेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्याद् न विचक्षणः ॥ ६ ॥ श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः । पुरग्रामधनादीनामैश्वर्ये कीदृशो मदः ॥ ७ ॥ गुणोज्ज्वलादपि भ्रश्येद् दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदेश्वर्य न मदाय विवेकिनाम् ॥ ८ ॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां युक्तो बलमदो न हि ॥ ६ ॥ बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत, ततो हन्त ! तेषां बलमदो मुधा ॥ १०॥ सप्तधातुमये देहे चयापचयधर्मिणि । जरारुजाभिभाव्यस्य को रूपस्य मदं वहेत् ॥ ११॥ सनत्कुमारस्य रूपं तत्क्षयं च Iain Education inte ४८ For Personal & Private Use Only HTwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy