SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥ २८१ ॥ Jain Education Intera 下 तथाविधकारण संपाते उत्पद्यमानः क्रोधः कृशानुवत् स्वं स्वकीयमाश्रयं यत्र स उत्पद्यते तं नियमेन दहति, पश्चात् कृशानुवदेवान्यं दाह्यान्तरं दहति वा न वा, परस्य क्षमाशीलत्वादिना साई ( सान्द्र ) दुमादिवत् दग्धुमशक्यत्वात् । अत्रान्तरश्लोकाः, अर्जितं पूर्वकोव्या यद् वर्षैरष्टभिरूनया | तपस्तत् तत्क्षणादेव दहति क्रोधपावकः ॥ १ ॥ शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । श्रमर्षविषसंपर्काद सेव्यं तत्क्षणाद् भवेत् ||२|| चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन् क्रोधधूमो श्यामलीकुरुतेतराम् ॥ ३ ॥ यो वैराग्यशमीपत्र पुटैः समरसोऽर्जितः । शाकपत्रपुटामेन क्रोधेनोत्सृज्यते स किम् ? ।। ४ ।। प्रवर्धमानः क्रोधोऽयं किमकार्य करोति न १ । जज्ञे हि द्वारका द्वैपायनक्रोधानले समित् ॥ ५ ॥ क्रुध्यतः कार्यसिद्धिर्या न सा क्रोधनिबन्धना । जन्मान्तरार्जितोर्जस्विकर्मणः खलु तत्फलम् ॥ ६ ॥ स्वस्य लोकद्वयोच्छियै नाशाय स्वपरार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ||७|| क्रोधान्धाः पश्य निम्नन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानमपि निर्घृणाः ॥ ८ ॥ १० ॥ क्रोधस्य स्वरूपमुक्त्वा तज्जयोपायमुपदिशति क्रोधवह्नेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया चमैकैव संयमारामसारणिः ॥ ११ ॥ यस्मात् क्रोध एवंविधस्तस्मात् क्रोधवह्नेरह्वाय झटिति शमनाय शान्तये शुभात्मभिः पुण्यात्मभिः, अह्नाय - ग्रहणं झटिति क्रोधोपशमोपदेशार्थम्, क्रोधो हि प्रथममेवाप्रतिहतः सन् विवर्धमानो दवानल इव पश्चात् निवारयितुमशक्यः, यदाह For Personal & Private Use Only 08-10+20+10+-*-*-- चतुर्थः प्रकाशः । ॥ २८१ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy