SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ * →→ **<--+ (·) %+ Jain Education Interna क्रोधाः संज्वलनादिभेदाः, विनिशलता - काष्ठा-स्थि - शैलस्तम्भसदृशाश्चत्वारो मानाः, अवलेखन - गोमूत्रिका - मेषशृङ्ग-वंशिमूलसमाश्चतस्रो मायाः, हरिद्रा - खञ्जन - कर्दम- कृमिरागसदृशाश्चत्वारो लोभाः, यदाह जलरेणुपुढविपन्चयराईसरिसो चउन्त्रिहो कोहो । तिनिसलयाकडुट्ठियले लत्थंभोवमो माणो ॥ १ ॥ मायावलेहगोमुत्तिमिंढसिंगथणवंसिमूलसमा । लोहो हलिद्दखंजणकद्दमकिमिरागसारिच्छो ॥ २ ॥ इति ॥ ८ ॥ _r कषायाणां जेतव्यत्वमुपदर्शयितुं दोषानाहतत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥ २ ॥ तत्रेति तेषु कषायषु क्रोधः प्रथमकषाय उपतापयति शरीरमनसी इत्युपतापकः, तथा वैरस्य परस्परोपघातात्मनो विरोधस्य सुभूम - परशुरामयोरिव कारणम्, तथा दुर्गतेर्नरकलक्षणायास्तयोरिव वर्तनी मार्गः क्रोधः; तथा शमसुखस्य प्रशमानन्दस्यात्मनि प्रविशतोऽर्गलेवार्गला, तदुपरोधकारित्वात् । पुनः पुनः क्रोधग्रहणं तस्यातिदौष्ट्वज्ञापनार्थम् ॥ ६ ॥ स्व-परोपतापकारित्वेऽपि क्रोधस्य कृशानुदृष्टान्तेन स्वोपतापकत्वं समर्थयते,— उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा न वा ॥ १०॥ ( १ ) जलरेणुष्टथ्वी पर्वतराजिसदृशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिकशैलस्तम्भोपमो मानः ॥ १ ॥ मायाऽवलेख गोमूत्रिकामें ढकशृङ्गघनवंशिमूलसमा । लोभो हरिद्राखञ्जन कर्दम कृमिरागसदृशः ॥ २ ॥ For Personal & Private Use Only 1700608+0+1-1++**-+103+0 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy