SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ योग चतुधः शास्त्रम् २८०। नावरणः प्रत्याख्यानं सर्वविरतिमावृणोतीति कृत्वा । स मासचतुष्टयमभिव्याप्य भवति । अप्रत्याख्यानोऽप्रत्या-1 ख्यानावरणः, नोऽल्पार्थत्वादन्पमपि प्रत्याख्यानमावृणोतीति कृत्वा । स वर्ष संवत्सरमभिव्याप्य भवति । प्रकाशन अनन्तं भवमनुबन्नातीत्यनन्तानुबन्धकः मिथ्यात्वसहचरितत्वादस्यानन्तभवानुबन्धित्वम् । स जन्म जीवितकालमभिव्याप्य भवति । प्रसन्नचन्द्रादेः क्षणमात्रस्थितीनामपि कषायाणामनन्तानुवन्धित्वम् , अन्यथा नरकयोग्यकर्मोपार्जनाभावात् ॥ ७॥ इति कालनियमकृते संज्वलनादिलक्षणेऽपरितुष्यलक्षणान्तरमाहवीतरागयतिश्राद्धसम्यग्दृष्टिवघातकाः । ते देवत्वमनुष्यत्वतिर्यक्त्वनरकप्रदाः ॥ ८॥ त्वशब्दः प्रत्येकमभिसंबध्यते, तेन वीतरागत्वस्य, यतित्वस्य, श्रावकत्वस्य, सम्यग्दृष्टित्वस्य च क्रमेण घातकाः, तथाहि-संज्वलनोदये यतित्वं भवति न पुनर्वीतरागत्वम् ; प्रत्याख्यानावरणोदये श्रावकत्वं भवति न पुनयतित्वम् । अप्रत्याख्यानावरणोदये सम्यग्दृष्टित्वं भवति न पुनः श्रावकत्वम् । अनन्तानुबन्ध्युदये सम्यग्दृष्टित्वं न भवति । एवं वीतरागत्वघातकत्वं संज्वलनस्य, यतित्वघातकत्वं प्रत्याख्यानावरणस्य, श्रावकत्वघातकत्वमप्रत्याख्यानावरणस्य, सम्यग्दृष्टित्वघातकत्वमनन्तानुबन्धिनः स्थितं लक्षणं भवति । उत्तरार्धेनामीयां फलदायक त्वमाह-ते संज्वलनादयो देवत्वादिफलदायकाः; तथाहि-संज्वलनाः क्रोधादयो देवगतिम् , प्रत्याख्यानावरणा मनुष्यगतिम् , अप्रत्यानावरणास्तिर्यग्गतिम् , अनन्तानुबन्धिनो नरकगतिं प्रयच्छन्तीति । एतेषां च संज्वलनादिभेदानां चतुर्णा कषायाणां स्पष्टदृष्टान्तकथनेन स्वरूपमुच्यते-जलराजि-रेणुराजि-पृथिवीराजि-पर्वतराजिसदृशाः ॥२८० ॥ Jain Education inted For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy