SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 'अयमात्मैव ' इति पूर्ववत । संसारो नारक-तिर्यग-नरा-ऽमररूपतया । किंविशिष्टः सन् ? कषायोन्द्रियनिर्जितः कषायैरिन्द्रियैश्च पराभूतः । तमेव चात्मानं तद्विजेतारं कषायेन्द्रियजेतारं मोक्षमाहुः । न हि स्वरूपलाभादन्यो मोक्षः । याऽप्यानन्दरूपता सापि स्वरूपलाभरूपैव । तसादात्मज्ञानमुपासनीयम् , दर्शन-चारित्रादेरत एव सिद्धेरिति ॥ ५॥ 'कषायेन्द्रियनिर्जितः' इत्युक्तम् , तत्र कषायान् विवृणोतिस्युः कषायाः क्रोधमानमायालोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैःसंज्वलनादिभिः ॥६॥ - क्रोधमानमायालोमाः कषायशब्दवाच्या भवन्ति कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कपः संसारः कर्म वा तस्याया लाभाः प्राप्तय इति कृत्वा, अथवा, कषं संसारमयन्त एभिरिति कृत्वा । ते च शरीरिणां संसारिणां न तु मुक्तानाम् । ते च क्रोधादयः प्रत्येकं चतुर्विधाश्चतुष्प्रकाराः संज्वलनादिभिर्भेदैः। तत्र क्रोधः संज्वलनः, प्रत्याख्यानावरणः, अप्रत्याख्यानावरणः, अनन्तानुबन्धी च । एवं मानः, माया लोमश्चेति ॥६॥ __संज्वलनादीनां लक्षणमाह| पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम्।अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥७॥ पक्षं मासार्धमभिव्याप्य संज्वलनः क्रोधो मानो माया लोभश्च भवति । संज्वलन इति तृणाग्निवदीपज्ज्वलनात्मकः, परीपहादिसंपाते सपदि ज्वलनात्मको वा । प्रत्याख्यानो " भीमो भीमसेन" इति न्यायेन प्रत्याख्या Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy