SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 10.K+16+ ***** Jain Education Inter तदभेदमापन एवैष आत्मा शरीरमधितिष्ठति । श्रात्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात्, दत्तसंबन्धिनामिव यज्ञदत्ते ॥ १ ॥ भेदमेव समर्थयितुमाह श्रात्मानमात्मना वेत्ति मोहत्यागाद्य श्रात्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ||२|| आत्मानं कर्मतापनमात्मन्याधारभूते आत्मना स्वयमेव यो वेत्ति जानीते । एतच्च ज्ञानं न मूढानां भवतीत्याह — मोहत्यागात् । तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम्, अनाश्रवरूपत्वात् ; तज्ज्ञानं तदेव ज्ञानम्, त्वात् ; तच्च दर्शनम्, तदेव दर्शनं श्रद्धानरूपत्वात् ॥ २ ॥ 1 बोधरूप श्रात्मज्ञानमेव स्तौति देव आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञानहींनैश्छेत्तुं न शक्यते ॥ ३ ॥ इह सर्व दुःखमनात्मविदां भवति, तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन । ननु कर्मक्षयहेतुः प्रधानं तप उक्तम्, यदाहु:, - " पुवि दुच्चिन्नाणं दुष्पडिकंताणं कडाणं कम्माणं वेत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता " इत्याह, तपसापि आस्तामन्येनानुष्ठानेन तदात्माज्ञानभवं दुःखमात्मविज्ञानहीनैर्न च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात् यदाह; - (१) पूर्व दुश्चरितानां दुष्प्रतिक्रान्तानां कृतानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा तपसा वा क्षपयित्वा । For Personal & Private Use Only 03 108+0 FO**K www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy