SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यः कालः स उच्यते ॥ ४२ ॥ ज्योति शास्त्रे यस्य मानमुच्यते Mसमयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः॥५३॥ नवजीर्णादिरूपेण यदमी भूवनोदरे। पदार्थाः परिवर्त्तन्ते तत्कालस्यैव चेष्टितम् ।। ५४ । वर्तमाना प्रतीतत्वं भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः॥ ५५ ॥ ॥ इति अजीवतत्त्वम् ॥ मनोवचनकायानां यत्स्यात्कने स पाश्रवः। शुभ: शुभस्य हेतुः स्यादशुभस्त्वशुभस्य च ॥ ५६ ।। ॥ इति आश्रवः॥ सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जरणादिह निर्जरा ॥ ५७॥ ॥इति संवरनिर्जरे ॥ वक्ष्यन्ते भावनास्वेवाश्रवसंवरनिर्जराः । तमात्र विस्तरेणोक्ताः पुनरुक्तत्वभीरुभिः ॥ ५८॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याजीवास्वातन्त्र्यकारणम् ॥५६॥ प्रकृतिस्थित्यनुभागप्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिरष्टधा ॥ ६॥ ज्ञानदृष्ट्यावृती वेद्यं मोहनीयायुषी अपि। नामगोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ ६१ ॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभागो। विपाकः स्यात्प्रदेशोऽशप्रकल्पनम् । ६२॥ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुदादयः। योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥६३ ॥ ॥इति बन्धतत्त्वम् ।। अभावे बन्धहेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां क्षये ॥ ६४ ॥ सुरासुर Jan Education Internat For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy