SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥ ३७ ॥ 8-03-100+-*** Jain Education International ॥३५॥ यद्वादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्त्तन्ते निवृत्तिवादरोऽपि तत् || ३६ || परिणामा निवर्त्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात्क्षपकः शमकश्च सः ॥ ३७ ॥ लोभाभिधः सम्परायः सूक्ष्मः किट्टीकृतो यतः । स सूक्ष्मसम्परायः स्यात्क्षपकः शमकोऽपि च ॥ ३८ ॥ अथोपशान्तमोहः स्यान्मोहस्योपशमे सति । मोहस्य तु क्षये जाते चीणमोहं प्रचचते ॥ ३६ ॥ सयोगिकेवली घातिचयादुत्पन्न केवलः । योगानां तु चये जाते स एवायोगिकेवली ॥ ४० ॥ ॥ इति जीवतत्त्वम् ॥ अजीवाः स्युर्धर्माधर्म्मविहायः कालपुद्गलाः । जीवेन सह पश्चापि द्रव्याण्येते निवेदिताः ॥ ४१ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रूपा अकर्त्तारश्च ते मताः ॥ ४२ ॥ कालं विनास्तिकायाः स्युरमूर्त्ताः पुद्गलं विना । उत्पादविगमधौव्यात्मानः सर्वेऽपि ते पुनः ॥ ४३ ॥ पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राऽबद्धाः किलाणवः ॥ ४४ ॥ बद्धाः स्कन्धा गन्धशब्दसौक्ष्म्यस्थौन्याकृतिस्पृशः । अन्धकारातपोद्योत भेदच्छायात्मका अपि ।। ४५ ।। कर्मकायमनोभाषाचेष्टितोङ्खासदायिनः । सुखदुःखजीवितव्यमृत्यूपग्रहकारिणः || ४६ || प्रत्येकमेकद्रव्याणि धर्म्माधर्मौ नभोऽपि च । अमूर्त्तानि निष्क्रियाणि स्थिराण्यपि च सर्व्वदा ॥ ४७ ॥ एकजीव परीमाणसं ख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्म्माधर्मौ व्यवस्थितौ ॥ ४८ ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धर्म्मः पानीयमिव यादसाम् ॥ ४६ ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येषु यथा च्छायाऽध्वयायिनाम् ॥ ५० ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोकौ स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ ५१ ॥ लोकाकाशप्रदेशस्था For Personal & Private Use Only प्रथमः प्रकाशः । ॥ ३७ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy