SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ विद्या साधयितुं ययौ । स्वयं संविद्रेते सम्यग् भवन्तस्तु ततः परम् ॥८५॥ तदा च पुष्पवत्याख्यदावयोधातससयम् । शोकं धर्माक्षरैः शोकापनोद इव चानुदत् ॥ ८६ ॥ अन्यच पुष्पवत्यूचेऽभिगम्योऽयमिहागतः । ब्रह्मदचोऽस्तु वा भतों नान्यथा हि मुनेगिरः ॥८७॥ स्वीकृतं च य(त)दावाभ्यां तया च रभसावशात् । पताकाचालि धवला त्यक्त्वावां त्वं गतस्ततः ॥८८॥ यदासद्भाग्यवैगुण्यामागतोऽसि न चेक्षितः । भ्रान्त्वा सर्वत्र निर्विमे आवामिह तदागते ॥८६॥ पुण्यरसि समायातः पुरा पुष्पवतीगिरा। वृतोऽसि वरयावां तद्गतिरेकस्त्वमावयोः ॥६॥ गान्धर्वेण विवाहेन स उपायंस्त ते अपि । भोगी हि भाजनं स्त्रीणां सरितामिव सागरः ॥ ११॥ रममाणः समं ताभ्यां गङ्गोमाभ्यामिवेश्वरः । तत्रातिवाहयामास तां निशां ब्रह्मनन्दनः ॥ ४२ ॥ यावन्मे राज्यलाभः स्यात्पुष्पवत्याः समीपतः । तावद्युवाभ्यां स्थातव्यमित्युक्त्वा व्यसृजच्च ते ॥ ६३ ॥ तथेत्यादृतवत्यौ ते सलोकस्तच्च मन्दिरम् । गन्धर्वनगरमिव ततः सर्व तिरोदधे ॥१४॥ अथाश्रमे रत्नवतीमन्वेष्टुं ब्रह्मसूरगात् । अपश्यंस्तत्र पप्रच्छ नरमेकं शुभाकृतिम् ॥६५॥ दिव्याम्बरधरा नारी रत्नाभरणभूषिता । कापि दृष्टा महाभाग त्वयातीतदिनेऽद्य वा ॥ १६ ॥ स ऊचे नाथ नाथेति रुदती यो मयेक्षिता । प्रत्यभिज्ञाय नीति तपितृव्याय चार्पिता ।। ६७ ॥ तद्वरोऽसीति तेनोक्तस्तथेति ब्रह्मसूर्वदन् । निन्ये तेन प्रहृष्टेन तत्पितृव्यनिकेतनम् ॥8॥ रत्नवत्या पितृव्योऽपि ब्रह्मदत्तं व्यवाहयत् । ऋद्ध्या महत्या धनिना सर्वमीपत्करं यतः ॥६६॥ | तया विषयसौख्यानि समं सोऽनुभवमथ । मृतकार्य वरधनोरपरद्युः प्रचक्रमे ॥४०॥ साक्षादिव परेतेषु १ जानन्ति. For Personal & Private Use Only in Education www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy