SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ गुणमूलानि तिरोदधाति, दोपशाखाश्च विस्तारयति । तदयं कुठारादिभिरुन्मूलयितुमशक्यो मार्दवभावनासरित्प्रT] बाहेण समूलमुन्मूलनीय इत्यर्थः । अत्रान्तरश्लोकाः-- . मार्दवं नाम मृदुता तच्चौद्धृत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ १॥ अन्तः स्पृशेद् यत्र है यत्रौद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मादेवमाश्रयेत् ॥२॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशे षतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३॥ मानाद् बाहुबलिबद्धो लताभिरिव पाप्मभिः । मार्दवात तत्क्षणं मुक्तः सद्यः संजातकेवलः ॥४॥ चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो! मानच्छेदायामृदु मार्दवम् ॥ ५ ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधये । नमस्यति त्यक्तमानश्चिरं च वरिवस्यति ॥६॥ एवं च मानविषयं परिमृश्य दोष, ज्ञात्वा च मार्दवनिपेवण गुणौघम् । मानं विहाय यतिधर्मविशेषरूपं, सद्यः समाश्रयत मार्दवमेकतानाः ॥ ७॥ १४ ॥ इदानी मायाकषायस्वरूपमाहअसूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥१५॥ असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात् , 'माया' इति वक्ष्यमाणं संबध्यते, माया वञ्चनात्मकः परिणामः, तथा परशुः कुठारः शीलं सुस्वभावता तदेव शाखी तस्य परशुरिव परशुः, छेदकत्वात् ; तथा जन्मभूमिरुत्पत्तिस्थानम् , कासाम् ? अविद्यानां मिथ्याज्ञानानाम् । सा च दुर्गतेः कारणमिति प्रधानफलनिर्देशः॥ १५ ॥ Jain Education inter For Personal & Private Use Only ITTwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy