________________
योगशाखम्
तृतीय: प्रकाशः।
॥१६
॥
द्विपदा मनुष्यादीनां चतुष्पदा गवारवादीनां विक्रयः केशवाणिज्यम्, सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां विक्रयो दन्तवाणिज्यमिति विवेकः। रसकेशयोरिति यथासंख्येन योगः। दोषास्तु नवनीते जन्तुसंसर्छन, वसाक्षौद्रयोजेन्तुघातोद्भवत्वं, मद्यस्य मदनजननं तद्गतकृमिविघातश्चेति; द्विपाच्चतुष्पाद्विक्रये तु तेषां पारवश्यं वधबन्धादयः चुत्पिपासापीडा चेति ॥ १० ॥
अथ विषवाणिज्यमाहविषास्त्रहलयन्त्रायोहरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥११०॥
विष निकादि तचोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् । तान्येवाह-अखं खड्गादि, हलं लागलं, यन्त्रमरघट्टादि, अयः कुशीकुद्दालादिरूपं, हरितालं वर्णकविशेषः। श्रादिशब्दादन्येषामुपविषाणां ग्रहणम् । एवमादिवस्तुनो विक्रयो विषवाणिज्यं विषादेविशेषणं-जीवितघ्नस्य, अमीषां जीवितघ्नत्वं प्रसिद्धमेव ॥ ११ ॥
अथ यन्त्रपीडाकर्माहतिलेत्सर्षपेरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ १११ ॥ ___ यन्त्रशब्दः प्रत्येकमभिसम्बध्यते । तिलयन्त्रं तिलपीलनोपकरणम् , इनुयन्त्रं कोड्लुकादि, सर्षपैरण्डयन्त्रे तत्पीलनोपकरणे, जलयन्त्रमरघट्टादि, दलतैलं यत्र दलं तिलादि दीयते सैलं च प्रतिगृह्यते तदलतैलं तस्य कृतिविधानमिति, यन्त्रपीडा यन्त्रपीडनं यन्त्रपीडाकर्मणश्च पीडनीयतिलादिचोदात्तद्गतत्रसजीववधाच्च सदोषत्वम् ।
॥१६
॥
For Personal & Private Use Only
Education
wrane.lainelibrary.org