SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ +E 7 . लौकिका अपि ह्याचक्षते-दशमूनासमं चक्रमिति ।। १११ ॥ अथ निर्लाञ्छनकर्माह---- नासावेधोऽङ्कनं मुकच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥११२।। नितरां लाञ्छनमगावयवच्छेदः, सेन कर्म जीविका निर्लाञ्छनकर्म । तद्भेदानाह-नासावेधो गोमहिषादीनाम् , अङ्कनं गवारवादीनां निङ्गकरणं, मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवारवादीनामेव, पृष्ठगालनं करभाणां, गवां च कर्णकम्बलविच्छेदः । एषु जन्तुबाधा व्यक्तैत्र ॥ ११२ ।। अथासतीपोषणमाहसारिकाशुकमार्जार श्वकर्कटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदः ॥११॥ असत्यो दुःशीलास्तासां पोषणं, लिंगमतन्त्रम् , शुकादीनां पुंसामपि पोषणमसतीपोषणं, सारिका व्यक्तवाक पक्षिविशेषः, शुकः कीरः, मार्जारो बिडालः, श्वा कुकुरः, कुकुंटस्ताम्रचूडः, कलापी मयूरः, एतेषां तिरश्चां पोषः पोषणं, दास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः । एषां च दुःशीलानां पोषणं पापहेतुरेव ॥११३।। अथ दवदानसरःशोषावेकेन श्लोकेनाहव्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा। सरःशोषः सरःसिन्धुहृदादेरम्बुसंप्लवः ॥११॥ दवस्य दवाग्नेः तृणादिदहननिमित्तं दानं वितरणं दवदानं, तच द्विधा संभवति-व्यसनात् फलनिरपेक्षता कुर्कुटकला अथासताना व्यक्तंत्र ॥ in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy