SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् चतुर्थः प्रकाशः। ॥ ३३५ ॥ ननु छद्मस्थयोगिनां यदि मुहूर्त्तकालं ध्यानं तर्हि ततः परं किं स्यादित्याह। मुहूर्तात्परतश्चिन्ता यद्वाध्यानान्तरं भवेत्। वह्वर्थसंक्रमे तु स्यादीर्घाऽपि ध्यानसंततिः॥११६॥ | - मुहूर्तात्परतो मुहूर्तोत्तरकालं चिन्ता भवेत् यद्वा ध्यानान्तरं पालम्बनभेदेन भिन्नं भवेत् , न पुनरेकमेव ध्यानं मुहर्तात परतो भवति तत्स्वाभाव्यादिति । एवं चैकस्मादर्थाद्वितीयमर्थमालम्बमानस्य पुनस्तृतीयं चतुर्थ च दीर्घाऽपि दीर्घकालापि ध्यानसंततिर्भवेत् , मुहूर्तान्तरं च प्रथमे ध्याने समाप्तप्राये आलम्बनान्तरे तद्विवृद्ध्यर्थ ध्याने भावनां कुर्वीत् ॥ ११६ ।। । तदेवाह| मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि नियोजयेत्। धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥११७॥ ___'जिमिदाच्' स्नेहने, मे(मि)द्यति स्निह्यतीति मित्रं, तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री। प्रमोदनं प्रमोदो वदनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः । करुणैव कारुण्यं दीनादिष्वनुक म्पा । रागद्वेषयोरन्तरालं मध्यं, तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यमुपेक्षा । तानि आत्म*नि नियोजयेत् । किमर्थ ? धर्म्यध्यानमुपस्कर्तुं त्रुट्यतो ध्यानस्य पुनानान्तरेण सन्धानं कर्तुं । कुत इत्याह तद्धि तस्य रसायनं तत् मैत्र्यादियोजनं हिर्यस्मात्तस्य ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुट्यतो रसायनमिव रसायनम् ।। ११७ ॥ ॥३३५॥ Lain Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy