SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ___ तत्र मैत्रीस्वरूपमाहमा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः।मुच्यतां जगदप्येषा मतिमंत्री निगद्यते ___ कोऽपि जन्तुरुपकार्यनुपकारी वा पापानि दुःखनिबन्धनानि मा कार्षीत् , पापकरणनिषेधात् मा च भूत् कोऽपि दुःखितः। जगदिति तांस्तान देवमानुपतिर्यगनारकपर्यायानत्यर्थ गच्छतीति जगत् प्राणिजातं । अपिशद्वान्नकः कश्चित् , किं तु सकलं जगत् मुच्यतां मोक्षमाप्नुयादित्यर्थः । एषा उक्तस्वरूपा मतिमैत्रीशद्रेनोच्यते । न हि कस्यचिदेकस्य मित्रं मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात, तस्मादशेषसत्त्व विषया मैत्री । एवं कृतापकारणामपि सर्वसत्त्वानां मित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाक्कायर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहमिति मैत्रीभावना ॥ ११८ ।। अथ प्रमोदस्वरूपमाहअपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम्। गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः॥११६॥ अपास्ता अशेषा दोषाः प्राणिवधादयो यस्तेषां । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषां । अनेन ज्ञानप्रक्रियाद्वयं मोक्षहेतुमाह, यदाह भाष्यकार:-" नाणकिरियाहि मोक्खो" इति (ज्ञानक्रियाभ्यां मोक्षः) एवं विधानां मुनीनां गुणेषु क्षायोपशमिकादिभावावर्जितेषु शमदमौचित्यगाम्भीर्यधैर्यादिषु यः पक्षपातो विनयप्रयोगवन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्षः स प्रमोद: Jain Education inten For Personal & Private Use Only salwww.pinelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy