SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ उच्यते-द्वयोरपि प्राधान्यं नान्तरीयकत्वात् । एतदेवाहन साम्येन विना ध्यानं नध्यानेन विना चतत्। निष्कम्पं जायते तस्माद्वयमन्योऽन्यकारणम् ११४ साम्यं विना न ध्यानं भवति, न च ध्यानं विना साम्यं भवति । एवं तहस्तरेतराश्रयं ? नैवं, साम्यमन्तरेण ध्यान न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीति इतरेतराश्रयदोषाभावः । एवं च सति द्वयमन्योऽन्यस्य हेतुत्वेनावतिष्ठते ॥ ११४ ॥ साम्यं पूर्वमेव व्याख्यातम् , इदानीं ध्यानस्य स्वरूपं व्याख्यायतेमुहूर्तान्तर्मनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् । धयं शुक्लं च तद्वेधा योगरोधस्त्वयोगिनाम् ११५/ इह द्वये ध्यातारः-सयोगा अयोगिनश्च । सयोगा अपि द्विविधाः-छद्मस्थाः केवलिनश्च । तत्र छद्मस्थयोगिनां ध्यानस्य लक्षणमेतत् , यदुतान्तर्मुहर्त कालमेकसिनालम्बने चेतसः स्थितिः, यदाह-उत्तमसंहननस्यैकाग्रचित्तनिरोधो ध्यानमान्तर्मुहूर्तात् । तच्च छद्मस्थयोगिनां द्वेधा-धर्म्य शुक्लं च । तत्र धर्माद्दशविधादनपेतं धर्मेण | प्राप्यं वा धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्ममलक्षयहेतुत्वात् । यद्वा शुग् दुःखं तत्कारणं वाऽष्टविधं कर्म, शुचं क्लमयतीति शुक्लं । अयोगिनां तु अयोगिकेवलिनां ध्यान योगनिरोधः योगानां मनोवाकायानां निरोधो निग्रहः । सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसंभव इति पृथग नोक्तं, ते हि देशोनपूर्वकोटिं यावन्मनोवाकायव्यापारयुक्ता एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति ॥ ११५॥ in Education For Personal & Private Use Only ग ww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy