SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ स्फुलिंगसंततिं ध्यायेज्ज्वालामालामनन्तरम्। ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् ॥१५॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ १६ ॥ ततो देहाइहिायेच्या वह्निपुरं ज्वलत्। लाञ्छितं स्वस्तिकेनान्ते वह्निबीजसमन्वितम्॥१७॥ | देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं वहिः। कृत्वाऽऽशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥१८॥ स्पष्टाः । नवरं महामन्त्रं सिद्धचक्रवर्तिबीजं अहं इति ॥ १३-१८ ॥ अथ वायवीं धारणां श्लोकद्वयेनाहततस्त्रिभुवनाभोगं पूरयन्तं समीरणम्।चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत्॥१९॥ तच्च भस्मरजस्तेन शीघ्रमुध्धूय वायुना । दृढाभ्यासः प्रशान्ति तमानयेदिति मारुती॥२०॥ स्पष्टौ ॥ १९-२० ॥ अथ वारुणी धारणां श्लोकद्वयेनाहस्मरेद्वर्षत्सुधासारैर्घनमालाकुलं नभः । ततोऽर्धेन्दुसमाक्रान्तं मण्डलं वारुणाङ्कितम् ॥२१॥ नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः। तद्रजः कायसंभूतं क्षालयेदिति वारुणी॥२२॥ स्पष्टौ ॥ २१-२२ ॥ अथ तत्रभूधारणां सोपसंहारां त्रिभिः श्लोकैराह in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy