SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ स्पष्टः ॥ ३ ॥ तात्पर्यमाहसोऽयं समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि ॥ ४ ॥ स्पष्टः ॥ ४ ॥ ऐदम्पर्यमुपदिशतिअसक्ष्यं लक्ष्यसंबन्धात् स्थूलात्सूक्ष्म विचिन्तयेत्।सालम्बाञ्च निरालम्बंतत्त्ववित्तत्त्वमंजसा। ___ स्पष्टः ॥ ५॥ पिण्डस्थादिरूपं चतुर्विधं ध्येयमुपसंहरतिएवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्त्वं विधत्ते शुद्धिमात्मनः ॥६॥ ____ स्पष्टः ॥ ६॥ पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य चातुर्विध्यमाह| आज्ञापायविपाकानां संस्थानस्य च चिन्तनात्। इत्थं वा ध्येयभेदेन धन्यं ध्यानं चतुर्विधम् ॥७॥ ध्येयभेदाचातुर्विध्यं ध्यानस्य ॥ ७ ॥ श्रथाज्ञाध्यानमाहअाज्ञां यत्र पुरस्कृत्य सर्वज्ञानामवाधिताम् । तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते ॥८॥ आज्ञाऽऽप्सरचनं प्रवचनमिति यावत् । अबाधितां प्रमाणान्तरैः परस्परविरोधेन च तत्वत इति परमार्थवृत्या, अर्थान् पदार्थान् जीवादीन चिन्तयेत् ॥ ॥ प्राज्ञाया अबाधितत्वं भावयति Jain Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy