SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम ॥ ३ ॥ +11+**++++ Jain Education International धन्यान पृष्ठमारुह्य वाहयेत् ॥ ४८ ॥ श्ररुह्यावाहद्वाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठ प्रष्ठो महौजसाम् ।। ४६ ।। ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्धितुं सुरः || ५० || वक्त्रे पातालकल्पस्य जिह्वया तचकायितम् । पिङ्गैस्तुङ्गे शिशैले केशैर्दावानलायितम् ॥ १ ॥ तस्यातिदारुणे भूतां कचाकृती । जाज्वल्यमाने अङ्गारशकटयावित्र लोचने ॥५२॥ घोणारन्धे महाघोर महीधरगुहे इव । भृकुटीरे भीमे महोरग्याविव भ्रुवौ ।। ५३ ॥ व्यरंसद्विर्धनानास यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठ स्वामिना बामनीकृतः ॥ ५४ ॥ एवं च भगवद्वेय साचात्कृत्येन्द्रवर्णितम् । प्रभुं नत्वात्मरूपेण निजं धाम जगाम सः ।। ५५ ।। मातापितृभ्यामन्येद्युः प्रारब्धे ऽध्यापनोत्सवे । आः सर्व्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थित ॥ ५६ ॥ उपाध्यायासने तस्मिन्वासवेनोपवेशितः । प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥ ५७ ॥ इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छ्रुत्वा लोकेष्वैन्द्रमितीरितम् ॥ ५८ ॥ मातापित्रोरनुरोधादष्टाविंशतिवत्रीम् । कथञ्चिद्गृहवासेऽस्थात्प्रव्रज्योत्कण्ठितः प्रभुः ।। ५९ ।। अथ पूर्णायुषः पित्रोर्देव भूयमुपेयुषाः । ईहाव परिवज्यां निरीहो राज्यसम्पदः ॥ ६० ॥ भगवन्मा चते चारं क्षैप्सीरिति सगद्गदम् । भ्रात्रोक्त्वा ज्यायसा नन्दिवर्द्धनेनोपरोधितः ।। ६१ ।। भावतो यतिरेवाथ नानाभरणभूषितः । कायोत्सर्ग श्रयंश्चित्रशालिकायामवस्थितः ।। ६२ ।। एपणीयप्रासुकान्नपानवृत्तिर्महामनाः । वर्षमेकं कथमपि भगवानत्यवायत् ॥ ६३ ॥ तीर्थं प्रवर्त्तये त्यभ्यर्थितो लोकान्तिकामरैः । यथाकामीनमर्थिभ्यो दानं दातुं प्रचक्रमे ।। ६४ ।। द्वैतीयीकेन वर्षेण विनिर्मायानृणां भुवम् । श्रज्झद्राज्यश्रियं स्वामी मन्यमानस्तृणाय ताम् ॥ ६५ ॥ सव्वैर्देवनिकायैश्च कृतनिष्क्रमणोत्सवः । For Personal & Private Use Only -*-*-***** प्रथम: प्रकाश ॥ ३ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy