SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter •-•*@*-**-*-**-** Xe d सहस्रवाह्यामारुह्य शिबीं चन्द्रप्रभाभिधाम् || ६६ ॥ ज्ञातखण्डवने गत्वा सर्वसावद्यवर्जनात् । प्रव्रज्यामग्रहीद तुर्थहरे प्रभुः || ६७ ॥ जगन्मनोगतान् भावान् प्रकाशयदथ प्रभोः । ज्ञानं तुरीयं संजज्ञे मन:पर्ययसंज्ञकम् || ६८ || ततश्च गत्वा सन्ध्यायां कुर्म्मारग्रामसन्निधौ । गिरीन्द्र इव निष्कम्पः कायोत्सर्गं व्यधाद्विभुः ॥ ६६ ॥ गोपालनाथ यामिन्यां निष्कारण कृतक्रुधा । उपद्रोतुं समारेभे भगवानात्मवैरिणा ॥ ७० ॥ अथेन्द्रेणावधिज्ञानाजज्ञे प्रभुमुपद्रवन् । स दुःशीलो महाशैलमाखुश्चिखनिषन्निव ॥ ७१ ॥ कल्याणीभक्तिरागाच्च शक्रः प्रभुपदान्तिकम् । नष्टो मत्कुणनाशं च स गोपहतकः क्वचित् ।। ७२ ।। ततः प्रदक्षिणीकृत्य त्रिर्मूर्ध्ना प्रणिपत्य च । इति विज्ञपयाञ्चक्रे प्रभुः प्राचीनवर्हिषा ॥ ७३ ॥ भविष्यति द्वादशाब्दान्युपसर्गपरम्परा । तां निषेधितुमिच्छामि भगवन् पारिपार्शिवकः ॥ ७४ ॥ समाधिं पारयित्वेन्द्रं भगवान् चिवानिति । नापेक्षाञ्चक्रिरेऽर्हन्तः परसाहाय्यकं कचित् ॥ ७५ ॥ ततो जगद्गुरुः शीतलेश्यः शीतमयूखवत् । तपस्तेजोदुरालोकोऽधिपतिस्तेजसामिव ॥ ७६ ॥ शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्व्वस्पर्शान् सहिष्णुश्च यथैव हि वसुन्धरा ॥ ७७ ॥ अम्भोधिरिव गम्भीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहुतो हव्यवाडिव ॥ ७८ ॥ खङ्गिशृङ्गमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म्म इवाहिरिवैकान्तदत्तदृक् ॥ ७६ ॥ निरञ्जनः शङ्ख इव जातरूपः सुवर्णवत् । विप्रमुक्तः खग इव जीव इवास्खलद्गतिः ॥ ८० ॥ व्योमेवानाश्रयो भारुण्डपक्षीवाप्रमद्वरः । अम्भोजिनीदलमिवोपलेपपरिवर्जितः ॥ ८१ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ ८२ ॥ निष्कारणैककारुण्यपरायणमनस्तया । मञ्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ॥ ८३ ॥ प्रभुः प्रभञ्जन For Personal & Private Use Only **-••K• →→** www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy