SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सिन्धुगङ्गान्तरं कुर्वन् सङ्कटं विपुलैबलैः ॥३५॥ नितम्बमत्तरमथ वैताढयाद्रेवाप सः। तत्र स्वस्थपरीवारं स्कन्धावारं न्यधत्त च ॥ ३६॥ ततो नमिविनम्याख्यौ विद्याधरपती प्रति । आदिदेश विशामाशा मागण दण्डमार्गणम् ॥३७॥ वैताढयशृङ्गादुत्तीर्य कुपितौ दण्डयाचनात । आजग्मतुर्युयुत्सू तौ विद्याधरबलावृतौ ॥३८॥ कुवेन्मणिविमानो वहुसूर्यमयीमिव । प्रज्वलद्भिः प्रहरणैस्तडिन्मालामयीमिव ॥ ३९ ॥ उद्दामदुन्दुभिध्वानमेघघोषमयीमिव । विद्याधरवलं व्योमन्यपश्यद्भरतस्ततः॥४०॥ दण्डार्थिन दण्डमस्मत्तस्त्वं गृह्णासीति भाषिणी । आहवायाहयेतां तौ विद्यादृप्तौ महीपतिम् ॥४१॥ अथ ताभ्यां ससैन्याभ्यां प्रत्येक युगपच्च सः । युयुधे विविधेयुद्धयुद्धाज्यों यजयश्रियः ॥ ४२ ॥ युधा द्वादशवार्षिक्या विद्याधरपती जितौ । प्राञ्जली प्रणिपत्यैवं भरताधीशमूचतुः॥४३॥ रवेरुपरि किं तेजो वायोरुपरि को जवी । मोक्षस्योपरि कि सौख्यं कश्च शूरस्तवोपरि ॥४४॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षभे । अज्ञानाद्योधितोऽस्माभिः कुलस्वामिन् सहस्व तत् ॥ ४५ ॥ किरीट इव नो मूनि मण्डनं तव शासनम् । कोशो वपुरपत्यानि सर्वमन्यच्च तावकम् ॥ ४६ ॥ भक्तिगर्भमिति प्रोच्य भरतेशाय दत्तवान् । विनम्रो बिनमिर्नारीरत्नं रत्नोच्चयं नमिः ॥ ४७ ॥ ततो राज्ञा विसृष्टी तौ राज्यान्यारोप्य सूनुषु । विरक्तावृषभेशाहिमले जगृहतुव्रतम् ॥ ४॥ ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः। गच्छन्नासादयामास राजा मन्दाकिनीतटम् ॥ ४६॥ उत्तरं निष्कुटं गाङ्गं सुषेणोऽप्यभिषेणयन् । तरसा साधयामास किमसाध्यं महात्मनाम् ॥५०॥ राजाप्यष्टमभक्तेन गङ्गादेवीमसाधयत् । आनर्च भरतं सापि देवताहरुपायनैः ॥५१ ।। ततो गङ्गानदीकूले कमलामोदमालिनि । वासागार इवोवास वसुमत्येकवासवः ।। ५२ ॥ भरतं रूपला in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy