SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ योग- शास्त्रम् ॥२३ ॥ सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः । अयमपि पूर्वमुक्तः। वन्दनं वन्दनायोग्यानां धर्माचार्याणां पञ्च- * तृतीयः विंशत्यावश्यकविशुद्ध द्वात्रिंशद्दोषरहितं नमस्करणम् तत्र पञ्चविंशतिरावश्यकानि यथा प्रकाशः देओणयं अहाजायं किय(इ)कम्मं बारसावयं(तं)। चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥१॥ इति ॥ द्वे अवनमने “ इच्छामि खमासमणो वंदिउं जावणिजाए निसीहिआए" इत्यभिधाय गुरो छन्दानुज्ञापनाय प्रथममवनमनम् । १ । यदा पुनः कृतावर्ती निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् । २। तथा यथाजातं जातं जन्म तच्च द्वेधा प्रभवः प्रव्रज्याग्रहणं च। तत्र प्रसवकाले रचितकरसंपुटो जायते प्रवज्याकाले च गृहीतरजोहरणमुखवत्रिक इति यथा जातमस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् । ३ । तथा द्वादशावर्ताः कायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरःस्थापनरूपा यस्मिस्तद् द्वादशावर्तमिह च प्रथमप्रविष्टस्य अहो कायं इत्यादिसूत्रोच्चारणगर्भाः षडावर्ताः निष्क्रम्य पुनः प्रविष्टस्यापि त एव पडिति द्वादश । १५ । चत्वारि शिरांसि यस्मिन् तच्चतु:शिरः प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयम् , निष्क्रम्य पुनः प्रवेशे तथैव च शिरोद्वयम् । ११ । त्रिगुप्तं मनोवाकायकर्मभिर्गुप्तम् । २२ । तथा प्रथमोऽनुज्ञाप्य प्रवेशो द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशमेकं निष्क्रमणमावश्यक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् । २५ । द्वात्रिंशदोषा यथा(१) यवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुःशिरः त्रिगुप्तं च द्विप्रवेशमेकनिष्क्रमणम् ॥१॥ । २३५ Jain Education n n al For Personal & Private Use Only T w.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy