SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ * इन्द्रियविजितो जन्तुः कषायैरभिभूयते। वीरैः कृष्टेष्टकः पूर्वं वप्रः कैः कैर्न खण्ड्यते ? ॥२६॥ ___ इन्द्रियाणि जेतुमशक्तोऽत एव तैर्विजितः, यान् जेतुमिन्द्रियजय उपदिश्यते तैरेव प्रत्युत कषायैरभिभूयते । कषायाभिभूतश्च नरकं यातीति सुप्रसिद्धमेव | ननु यदीन्द्रियजयेऽशक्तो जन्तुः, तहीन्द्रियजनितैव बाधास्तु, कोऽवसरः कषायबाधायाः ? इत्याशङ्कामपनेतुं दृष्टान्तमाह-वीरविक्रान्तैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः पूर्व प्रथमम् , पश्चात कैः कैरवीरैरपि एकैकेष्टकाशकलकर्षणेन न खण्ड्यते न खण्डशो नीयते । अयमर्थःयथा वीरपुरुषपातितच्छिद्रः प्राकारः कर्मकरप्रायाणामपि गम्यो भवति तथैव वप्रप्रायः प्राणी वीरप्रायैरिन्द्रियैर्भग्नप्राय इतरपुरुषप्रायः कषायैर्वाध्यते, इन्द्रियानुसारित्वात् कषायाणाम् ॥ २६ ॥ न केवलमनिर्जितैरिन्द्रियैः कपायाभिभूतो जन्तुर्नरके नीयते, यावदिहलोकेऽपि अनिर्जितानीन्द्रियाण्यपायकारणान्येवेत्याहकुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम् ॥२७॥ ____ शरीरिणां जन्तूनां करणानीन्द्रियाणि अनिर्जितानि अदान्तानि जायन्ते । कस्मै ? कुलघाताय कुलघातो वंशोच्छेदः, पाताय पातो राज्यादिभ्रंशः, बन्धाय बन्धो नियमनम् , वधाय वधः प्राणनिग्रहः । तत्र कुलघातायेन्द्रियाणि रावणस्येव । तस्य निर्जितेन्द्रियस्य परदारान् रिरंसमानस्य रामलक्ष्मणाभ्यां कुलक्षयः कृत इत्युक्तपूर्वम् । पातायेन्द्रियाणि सोदासस्येव । स हि राज्यं पालयन् मांसप्रियतया नानाविधैांसैरात्मानं प्रीणयनेकदा Jan Education inteH Fer Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy