________________
योग
दापत
चतुर्थः प्रकाशः।
शास्त्रम्
॥२८॥
सूपकारैः संस्कृते मांसे बिडालादिभिर्भक्षिते सति तस्मिन् दिने धार्मिकैः श्रावकजनै राजानं प्रसाद्यामारिपटहे दापिते जीववधाभावादन्यमांसाप्राप्तौ सुलभस्य कस्यचिड्डिम्भस्य मांसं परिवेष्य राजा परितोषितः । स चैकान्ते सूपकारान् शपथदानपूर्वकं पप्रच्छ । तैश्च यथास्थिते कथिते मानुषमांसगृद्ध्या सकलनगरे डिम्भमानुषग्रहणाय स्खपुरुषान् नियुक्तवान् । एतच्च ज्ञात्वा पौरजानपदैमन्त्रिभिश्च भीतभीतैरेकमतीभूय मद्यपानप्रमत्तो बध्ध्वाऽरण्ये विमुक्तः। स *च राज्यात् , कुलात् परिवाराच्च पतितोऽरण्ये श्वापद इव दुःखमनुबभूव । बन्धायेन्द्रियाणि चण्डप्रद्योतस्येव । वधाय H मृत्यवे इन्द्रियाणि रावणस्येवेत्युक्तपूर्वम् । अत्रान्तरश्लोका:
इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव ॥१॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुबलिनि भरतोऽप्यस्वमक्षिपत् ।। २॥ जयो यद् बाहुबलिनि भरते च पराजयः । जिताजितानां तत् सर्वमिन्द्रियाणां विजृम्भितम् ॥ ३॥ यच्छनाशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां महिम्नानेन लजिताः॥४॥ दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो जनाः। शान्तमोहा: पूर्वविदो दण्ड्यन्ते यत् तदद्भतम् ॥५॥ जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि ही! तन्वन्ति तपस्विनः ॥ ६॥ अखाद्यान्यपि खादन्त्यपेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति हृषीकवशगा नराः ॥७॥ वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुलशीलोज्झितास्त्यक्तकरुणैः करणैर्हताः
॥ ८॥ परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्त्राणां विजृम्भितम् ॥६॥ al पाणिपादेन्द्रियच्छेदमरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेभ्यः करणेभ्यो नमो नमः ॥१०॥ विनयं ग्राह-
॥२८॥
Jain Education inter
For Personal & Private Use Only
www.jainelibrary.org