SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ परमात्मान एव, केवलज्ञानस्य येन तेनांशेन सर्वत्र भावात् , यत् पारमर्षम्-"'सव्वजीवाणं पि अणं प्रकावरस्सातभागो निच्चम्पाडियो चेव" । केवलं रागद्वेषादिदोषकलुषितत्वाद् न साक्षात परमात्मस्वरूपाभिव्यक्तिः । सामायिकांशुमत्प्रकाशनेन तु रागादितिमिरेऽपगते आत्मन्येव परमात्मस्वरूपमभिव्यक्तं भवति ॥५३॥ इदानी साम्यप्रभावं व्यनक्ति-- स्निह्यन्ति जन्तवोनित्यं वैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः॥५४॥ अपि स्वार्थकृते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद् नित्यवैरिणोऽप्यहिनकुलादयः नियन्ति परस्परं मैत्री कुर्वन्ति । अयमर्थः-ईदृशः साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्यवैरिषु पर्यवस्यति, यत् स्तुवन्ति विद्वांसः देवाकृष्य करेण केशरिपदं दन्ती कपोलस्थली, कण्डूयत्यहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः। व्याघ्रव्यातविशालवलकुहरं जिघ्रत्यजस्रं मृगो, यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भवम् ॥ १॥ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा-तत्सन्निधौ वैरत्याग इति । अत्रान्तर श्लोकाः चेतनाचेतन वैरिष्टानिष्टतया स्थितैः । न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥१॥ गोशीर्षचन्दनालेपे वासीच्छेदे च वाहयोः। अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तरम् ॥२॥ अभिष्टोतरि च प्रीते रोषान्धे चापि १ सर्वजीवानामप्यक्षरस्यानन्तभागो नित्योद्घाटित एव । २ भुजयोः Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy