SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ राजदण्डभयावा । यदाहु:चौरश्चौरापको मन्त्री भेदज्ञः काणकऋयी । स्थानदो भक्तदश्चैव चौर: सप्तविधः स्मृतः॥१॥ तस्करैरिति तदेव चौर्य कुर्वन्तीत्येवंशीलास्तस्करास्तैः ॥ ७१॥ स्तेयप्रवृत्तानां तन्निवृत्तानां च दोषान् गुणांश्च प्रत्येकं दृष्टान्तद्वारेणाहसंबन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपः।चौरोऽपि त्यक्तचौर्यः स्यात्स्वर्गभानौहिणेयवत्७२ दृष्टान्तद्वयमपि संप्रदायगम्यं । स चायम् अलब्धमध्यमम्भोधेरिवाम्भो बहरत्नमः। अस्तीह पाटलीपुत्रं नाम गौडेषु पत्तनम् ॥१॥ कलाकलापनिलयः साहसस्यैकमन्दिरम् । राजपुत्रो मूलदेवस्तत्र मूलं धियामभूत् ॥ २॥ स धृतविद्यैकधर्वः कृपणानाथवान्धवः । कूटचेष्टामधुरिपू रूपलावण्यमन्मथः ॥३॥चौरे चौरः साधौ साधुर्वक्रे वक्र ऋजाजुः । ग्राम्ये ग्राम्यश्छेके छेको विटे विटो भटे भटः॥४॥ द्यूतकारे द्यूतकारो वार्तिके वार्तिकश्च सः। तत्कालं स्फटिकाश्मेव जग्राह पररूपताम् ॥ ५॥ चित्रैः कौतूहलैस्तत्र लोकं विस्माययनसौ । विद्याधर इव खैरं चचार चतुराग्रणीः॥६॥ द्यूतैकव्यसनासक्तिदोषात्पित्राऽपमानितः। घुसत्पुरश्रीजयिन्यामुञ्जयिन्यां जगाम सः॥ ७॥ गुलिकायाः प्रयोगेण स भूत्वा कुब्जवामनः । पौरान विसाययंस्तत्र कलाभिः ख्यातिमासदत् ॥ ८॥ तत्रासीद्रुपलावण्यकलाविज्ञानको १ धवः पतिः । Education inte For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy