SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ १०८॥ शलैः । दत्तत्रपा रतेर्देवदत्तेति गणिकोत्तमा ॥९॥ गुणः कलावतां यो यः प्रकृष्टा तत्र तत्र सा। छकाया रञ्जने द्वितीयः तस्याः प्रतिच्छेको न कोऽप्यभूत् ॥१०॥ मूलदेवस्ततस्तस्याः क्षोभार्थ तद्गृहान्तिके । प्रभाते गातुमारेभे प्रत्यक्ष प्रकाशः। इव तुम्बरुः ॥ ११ ॥ आकर्ण्य देवदत्ताऽपि कोऽप्येष मधुरो ध्वनिः । कस्येति विस्मयादास्याऽन्वेषयामास तं बहिः ॥ १२ ॥ शशंसागत्य सा देवि गन्धर्वः कोऽपि गायति । मृत्यैव वामनः पूर्णैर्गुणैः पुनरवामनः ॥१३॥ देवदत्ता ततः कुब्जा माधवीं नाम चेटिकाम् । प्रजिघाय तमाहातुं प्रायो वेश्याः कलाप्रियाः ॥ १४ ॥ सा गत्वा तं जगादेदं महाभाग कलानिधे । देवदत्ता स्वामिनी मे त्वामायति गौरवात् ॥ १५॥ मूलदेवोऽवदद्गच्छ नागमि| प्यामि कुब्जिके । कुट्टिनीवश्यवेश्यानां स्ववशो वेश्म को विशेष ॥ १६ ॥ व्याघुटन्तीं विनोदेच्छुः कलाकौशलयोगतः । स प्रास्फाल्य ऋजूचक्रे तां कुब्जीमब्जनालवत् ॥ १७॥ वपुर्नवमिवासाद्य सानन्दा साऽपि चेटिका । उपेत्य देवदत्तायै तच्चष्टितमचीकथत् ॥ १८॥ देवदत्तवरेणेव देवदत्ताऽपि तेन ताम् । कुब्जामृतां वीक्ष्य परमं प्राप विसयम् ॥१६॥ देवदत्ता ततोऽवादीदीदृक्षमुपकारिणम् । निजाङ्गुलिमपि च्छित्वा तमेकच्छेकमानय | ॥ २० ॥ ततो गत्वा समभ्यर्थ्य चाटुभिश्चतुरोचितैः । अचालि वेश्माभिमुखं धुतराजो भुजिष्यया ॥ २१ ॥ तया निर्दिश्यमानाध्वा प्रविवेश निवेशनम् । ततोऽसौ देवदत्ताया राधाया इव माधवः ॥ २२ ॥ तं वामनमपि प्रेक्ष्य कान्तिलावण्यशालिनम् । सा मन्वाना सुरं छन्नमुपावेशयदासने ॥ २३ ॥ मिथो हृदयसंवादिसंलापसुभगा ततः। तयोः प्रववृते गोष्ठी तुन्यवैदग्ध्यशालिनोः ॥ २४ ॥ अथाऽऽगाचत्र कोऽप्येको वीणाकारः प्रवीणधीः । वीणामवीवदत्तेन देवदत्ताऽतिकौतुकात ॥२५॥ वल्लकी वादयन्तं च व्यक्तग्रामश्रुतिस्वराम् । धनयन्ती शिरो देवदत्ताऽपि P॥१०८॥ Latin Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy