________________
प्रशशंस तम् ॥ २६ ॥ सित्वाऽवदन्मूलदेवोऽप्यहो उज्जयिनीजनः । जानात्यत्यन्तनिपुणो गुणागुणविवेचनम् ॥ २७ ॥ साशङ्का साऽप्युवाचैवं किमत्र शुणमस्त्यहो । छेकछेकप्रशंसायामुपहासं हि शङ्कते ॥२८॥ सोऽप्याचचचे किं क्षुणमस्ति कापि भवादृशाम् । सगर्मा किन्त्वसौ तन्त्री किञ्च बंशोऽपि शल्यवान् ॥ २६ ॥ कथं ज्ञायत इत्युक्तस्तयाऽऽदाय स वल्लकीम् । वंशादश्मानमाकृष्य तन्त्र्याः केशमदर्शयत् ॥ ३० ॥ समारचय्य तां वीणां ततः स्वयमवादयत् । श्रोतृकर्णेषु पीयूषच्छटामिव पारीचपन् ॥ ३१॥ देवदत्ताऽब्रवीत्रैव सामान्यस्त्वं कलानिधे । नररूपं प्रपेदाना साचादसि सरस्वती ॥ ३२॥ वीणाकारश्चरणयोः प्रणिपत्येत्यवोचत । स्वामिन् शिवे भवत्पार्वे वीणावाद्यं प्रसीद मे ॥ ३३ ॥ मूलदेवो जगादैवं सम्यग् जानामि न ह्यहम् । किन्तु जानामि तान् ये हि सम्यग् जानन्ति वनकीम् ॥ ३४॥ के नाम ते क सन्तीति पृष्टोऽसौ देवदत्तया । अवोचदस्ति पूर्वस्यां पाटलीपुत्रपत्तनम् ॥ ३५ ॥ तस्मिन् विक्रमसेनोऽस्ति कलाचार्यो महागुणः । मूलदेवोऽहं च तस्य सदाप्यासन्नसेवकः ॥ ३६ ॥ अत्रान्तरे विश्वभूति ट्याचार्यः समागतः । साक्षाद्भरत इत्यस्मै कथितो देवदत्तया ॥ ३७ ॥ मूलदेवोऽप्येवरचे सत्यमेवायमीदृशः । ग्राहिताभिः कलां युष्मादृशीभिरपि लक्ष्यते ॥ ३८॥ विश्वभूतिरुपक्रान्ते विचारे भारते ततः । तं खर्व इत्यवाझासीद्वाद्यार्थज्ञा हि तादृशाः ॥ ३९ ॥ मेने च धूर्तराजेन विद्वन्मान्ययमस्य तत् । ताम्रखर्णालङ्करणस्येवान्तर्दयाम्यहम् ॥ ४० ॥ खच्छन्दं भरते तस्य गल्भमानस्य धूर्तराद् । पूर्वापरविरोधाख्यं व्याख्याने दोषमग्रहीत् ॥ ४१॥ विश्वभूतिस्ततः कोपादसंबद्धमभाषत । प्राज्ञैः पृष्टा - पाध्यायाश्छादयन्त्यज्ञता रुषा ॥ ४२ ॥ त्वमेवं नाटयेर्नाट्याचार्य नारीषु नान्यतः । हसितो मूलदेवेन तूष्णीकः
Jain Education intem
For Personal & Private Use Only
www.jainelibrary.org