________________
योगशास्त्रम् । ॥१६॥
द्वितीयः प्रकाशः
सोऽप्यजायत ॥ ४३ ॥ स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ॥४४॥ इदानीमुत्सुका यूयमुपाध्यायाः क्षणान्तरे । परिभाव्याभिधातव्यं प्रश्ने विज्ञानशालिनाम् ॥ ४५ ॥ देवदत्ते वयं यामो नाट्यस्यावसरोऽधुना। सज्जस्व त्वमपीत्युक्त्वा विश्वभूतिस्ततो ययौ ॥ ४६॥ देवदत्ताऽप्यथादिक्षदावयोः स्नानहेतवे । अङ्गमर्दो 'निर्विमद कश्चिदाहूयतामिति ॥ ४७ ।। अजल्पद्धतराजोऽपि व्याहार्षीर्माऽङ्गमर्दकम् । सुभ्रू यद्यनुजानासि तवाभ्यङ्गं करोमि तत् ॥ ४८ ॥ किमेतदपि वेत्सीति तयोक्तः प्रत्युवाच सः। न जानामि स्थितः किन्तु तज्ज्ञानामहमन्तिके ॥ ४६॥ आदेशाद्देवदत्तायाः पक्कतलान्यथाययुः । अभ्यङ्गं कर्तुमारेभे स मायावामनस्ततः ॥ ५० ॥ मृदुमध्यदृढं स्थानौचित्यात् पाणिं प्रसारयन् । अङ्गे तस्या मृलदेवः सुखमद्वैतमादधे ॥ ५१ ॥ सर्वार्थेषु कलादाक्ष्यमीदृग्नान्यस्य कस्यचित् । न सामान्योऽयमित्यंयोः पतित्वा साब्रवीदिति ॥ ५२ ॥ गुणैरपि त्वमाख्यातः कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकात्मानं किं गोपयसि मायया ॥ ५३ ।। प्रसीद दर्शयात्मानं किं मोहयसि मां मुहुः । भक्तानामुपरोधेन साक्षात्स्युर्देवता अपि ।। ५४ ॥ अाकृष्य गुलिकामास्याद् रूपं तत्परिवर्त्य सः । प्रतिपेदे निजं रूपं शैलूष इव तत्क्षणात् ।। ५५ ॥ अनङ्गमिव जाताङ्गं तं लावण्यैकसागरम् । उद्वीक्ष्य विस्मिता सोचे प्रसादः साधु मे कृतः॥५६॥ तस्यापयित्वा स्नानीयं पोतं प्रीता स्वपाणिना । अङ्गाभ्यङ्गं व्यरचयदेवदत्ताऽनुरागिणी ॥ ५७।। खलिप्रक्षालनापूर्व पिष्टातकसुगन्धिभिः । कवोष्णवारिधाराभिस्ततो द्वावपि सस्मतुः ।। ५८ । देवदृष्ये देवदत्तोपनीते पर्यधत्त सः । सुगन्ध्याढ्यानि भोज्यानि बुभुजाते समं च तो
(१) निर्विमर्दः इति वा पाठः. (२) वस्त्रम् ।
॥१०६।
Jain Education inter
For Personal & Private Use Only
www.jainelibrary.org