SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ में हृदयं त्वया । गुणला निकेतने ॥ ३२ ॥ गो निर्धनेऽपि चेत् । ॥ ५६ ।। रहाकलारहस्यानि वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः चणः सुखमयो ययौ ॥६० ॥ ततः सा व्याजहारैवं हृतं मे हृदयं त्वया । गुणैर्लोकोत्तरैर्नाथ प्रार्थयेऽहं तथाऽप्यदः ॥ ६१॥ यथा पदमकार्षीस्त्वं हृदये मम सुन्दर । विदधीथास्तथा नित्यमस्मिन्नेव निकेतने ॥ ३२ ॥ मृलदेवोऽप्युवाचैवं निर्धनेषु विदेशिषु । अस्मादृशेषु युष्माकमनुबन्धो न युज्यते ।। ६३॥ गुणानां पक्षपातेनानुरागो निधनेऽपि चेत् । वेश्यानामर्जनाभावात्कुलं सीदेत्तदाखिलम् ॥ ६४ ॥ वभाष देवदत्ताऽपि को विदेशो भवादृशाम् । सर्वः स्वदेशो गुणिनां नृणां केसरिणामिव ॥६५॥ श्रात्मानमर्थयन्त्यर्थैर्मर्खा हि बहिरेव नः प्रवेशं न लभन्तेऽन्तर्विना त्वां गुणमन्दिर ॥६६॥ सर्वथा प्रतिपत्तव्यं त्वया सुभग मद्वचः । इत्युक्ते मूलदेवेनाप्यामेति जगदे वचः ॥ ६७ ।। ततश्च क्रीडतोः स्नेहाद्विनोदैर्विविधैस्तयोः। राजद्वाःस्थोऽब्रवीदेत्यागच्छ प्रेक्षाक्षणोऽधुना ॥ ६८॥ छन्नवेषं मूलदेवं सा नीत्वा राजवेश्मनि । राज्ञोऽग्रे नृत्यमारेभे रम्भव करणोज्ज्वलम् ॥ ६६ ॥ शक्रपाटहिकसमः पाटप्रकटने पटुः । मूलदेवोऽपि निपुणोऽवादयत्पटहं ततः ॥ ७० ॥ राजाऽरज्यत नृत्तेन तस्याः करणशालिना । प्रसादं मार्गयेत्यूचे तं च न्यासीचकार सा॥ ७१ ॥सा मूलदेवसहिता जगौ चानु ननर्च च । ददौ चास्यै नृपस्तुष्टः स्वाङ्गलग्नं विभूषणम् ॥ ७२ ॥ पाटलीपुत्रराजस्य राजदौवारिकस्ततः । हृष्टो विमलसिंहाख्य इत्युवाच महीपतिम् ॥ ७३ ॥ अयं हि पाटलीपुत्रे मूलदेवस्य धीमतः। कलाप्रकर्षोऽमुष्या वा न तृतीयस्य कस्यचित् ॥७४॥ ततः प्रदीयतां देव मूलदेवादनन्तरम् । विज्ञानिषु च पट्टोऽस्यै पताका नर्तकीषु च ॥ ७५ ॥ ततो राज्ञा तथा दत्ते साब्रवीदेष मे गुरुः । ततः प्रसादमा (१) पाटो विस्तारः। Education International For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy