SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ Jain Education In 1)*) +-04-10. द्वे एव घटि सार्धे एकस्यामवतिष्ठते । तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः ॥ २६१॥ स्पष्टः || २६१ ॥ तथा पट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । श्रहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमम् ॥ २६२॥ स्पष्टः || २६२ || वायुसंक्रमावेदिनस्तच्चनिर्णयेऽनधिकारमाह मुग्धधीर्यः समीरस्य संक्रान्तिमपि वेत्ति न । तत्त्वनिर्णयवार्ता स कथं कर्तुं प्रवर्तते ॥ २६३ ॥ स्पष्टः ।। २६३ ॥ इदानीं वेधविधिं श्लोकाष्टकेनाह पूरितं पूरकेणाधोमुखं हृत्पद्ममुन्मिषेत् । ऊर्ध्व श्रोतो भवेत्तच कुम्भकेन प्रबोधितम् ॥ २६४॥ श्रक्षिप्य रेचकेनाथ कर्षेद्वायुं हृदम्बुजात् । ऊर्ध्वश्रोत ःपथग्रन्थि भित्त्वा ब्रह्मपुरं नयेत् ॥२६५॥ ब्रह्मरन्धान्निष्क्रमय्य योगी कृतकुतूहल: । समाधितोऽर्कतूलेषु वेधं कुर्याच्छनैः शनैः ॥ २६६॥ मुहुस्तत्र कृताभ्यासो मालतीमुकुलादिषु । स्थिरलक्ष (दय) तया वेधं सदा कुर्यादतन्द्रितः ॥ २६७॥ दृढाभ्यासस्ततः कुर्याद्वेथं वरुणवायुना । कर्पूरागृरुकुष्ठादिगन्धद्रव्येषु सर्वतः ॥ २६८ ॥ एतेषु लब्धलक्षो (यो) Sथ वायुसंयोजने पटुः । पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः ॥२६६॥ पतङ्गभृङ्गकायेषु जाताभ्यासो मृगेष्वपि । अनन्यमानसो धीरः संचरेद्विजितेन्द्रियः ॥२७०॥ For Personal & Private Use Only -*****...+10 +1.0.K+4 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy