SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ अष्टाङ्गेनायुर्वेदेन जीवातुभिरथागदैः । मृत्यंजयादिभिर्मन्त्रैखाणं नैवास्ति मृत्युतः ॥१॥ खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिकरैः ॥२॥ जलमध्यस्थितस्तम्भमूर्ध्वपञ्जरमध्यगम् । राज्ञः प्रियसुतं मृत्युश्चकर्षान्यस्य का कथा ? ॥ ३॥ षष्टिं पुत्रसहस्राणि सगरस्यापि चक्रिणः । तृणवत् वाणरहितान्यदहज्ज्वलनप्रभः ॥४॥ आस्कन्ध स्कन्दकाचार्य मुनिपञ्चशती नतः । न कश्चिदभवत् त्राता पालकादन्तकादिव ॥५॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक प्रतीकारमृढताम् ॥ ६॥ येऽसिमात्रोपकरणाः कुवेते दमामकण्टकाम् । यमभ्रूभङ्गभीतास्तेऽप्यास्ये निदधतेऽङ्गलीः ।। ७ ।। स्नेहादाश्लिष्य शक्रेणार्द्धासनेऽ. ध्यास्यते स यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ॥ ८॥ मुनीनामप्यपापानामसिधारोपमैक्रेतेः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ॥ ॥ अशरण्यमहो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते | यमरक्षसा ॥ १०॥ योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीयेते ॥११॥ एवं विश्वमनाकुलः कवलयन्नाब्रह्म कीटावधि, श्रान्ति याति कथञ्चनापि न खलु त्रैलोक्यभीमो यमः । | नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलंभूष्णुता-मालम्बेत शरण्यवर्जितमिदं हा! हा ! जगत् ताम्यति ॥ १२ ॥ मशरणभावना ॥२॥६४॥ अथ संसारभावनां श्लोकत्रयेणाहश्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः। संसारनाट्ये नटवत् संसारी हन्त! चेष्टते॥६५॥ संसारो नानायोनिषु सञ्चरणं स एव नाट्यं नटकर्म तत्र नटवत् नर्तकवत् संसारी जन्तुश्चेष्टते विविधां चेष्टां करो Iain Education Inter For Personal & Private Use Only www.jainelibrary.org.
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy