SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ योग | चतुर्थः प्रकाशः। शास्त्रम् ॥२६ तीति । हन्तेत्यामन्त्रणे । केनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति, स्वामी प्रभुः स एव पत्तिर्भवति, ब्रह्मा प्रजापतिः स एव कृमिर्भवति । यथेष्टं च विध्यनुवादौ, तेन श्वपचः श्रोत्रियः, पत्तिः स्वामी, कृमिब्रह्मा, इत्यपि द्रष्टव्यम् । यथा हि नाट्ये विविधवर्णकादियोगाद् भूमिकान्तरं नटाः प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधिः श्रोत्रियादितां प्रतिपद्यते, न पुनरस्य तथाविधं परमार्थतो रूपमस्ति ॥६५॥ तथान याति कतमां योनि कतमा वा न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥६६॥ योनिमेकेन्द्रियादिलक्षणां कतमां न याति ? सर्वामपि यातीत्यर्थः, कतमां वा योनिं न मुश्चति ? सर्वामपि मुश्चतीत्यर्थः, संसारी जन्तुः । कुतो हेतोरित्याह-कर्मसम्बन्धात् । अवक्रयकुटीमिव भाटककुटीमिव । यथा हि तथाविधोपयोगहेतोहमेधी एका कुटीं प्रविशति, उपयोगाभावे तां मुश्चति ; उपयोगान्तराच्च कुट्यन्तरमादत्ते, परिहरति च ; एवं नियतकर्मोपभोगहेतोरेका योनि जन्तुः प्रविशति, तद्योग्यकर्मोपभोगानन्तरं तु तां विमुञ्चति, योन्यन्तरं तूपादत्ते पुनश्च परिहरति, न पुनर्नियतः कोऽपि योनिपरिग्रहोऽस्तीति ॥६६॥ तथासमस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः। वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥७॥ इहाकाशं द्विविधं-लोकाकाशमलोकाकाशं च । यत्र धर्माधर्मजीवपुद्गलानां सम्भवोऽस्ति तल्लोकाकाशम् , A इतरत्वलोकाकाशम् , यदाह ; धर्मादीनां वृत्तिर्द्रव्याणां यत्र भवति तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥ ॥ २६ ॥ JainEducation in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy